03.286
कर्ण उवाच॥
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते। तथा परमतिग्मांशो नान्यं देवं कथञ्चन ॥०३-२८६-१॥
न मे दारा न मे पुत्रा न चात्मा सुहृदो न च। तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ॥०३-२८६-२॥
इष्टानां च महात्मानो भक्तानां च न संशयः। कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ॥०३-२८६-३॥
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि। जानीत इति वै कृत्वा भगवानाह मद्धितम् ॥०३-२८६-४॥
भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः। इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥०३-२८६-५॥
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्। विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ॥ प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा ॥०३-२८६-६॥
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति। व्येतु सन्तापजं दुःखं तव भास्कर मानसम् ॥ अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम् ॥०३-२८६-७॥
तवापि विदितं देव ममाप्यस्त्रबलं महत्। जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥०३-२८६-८॥
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम। भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥०३-२८६-९॥
सूर्य उवाच॥
यदि तात ददास्येते वज्रिणे कुण्डले शुभे। त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥०३-२८६-१०॥
नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः। अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥०३-२८६-११॥
अर्जुनेन विनाशं हि तव दानवसूदनः। प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति ॥०३-२८६-१२॥
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः। अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ॥०३-२८६-१३॥
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्। दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ॥०३-२८६-१४॥
इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले। तया त्वं कर्ण सङ्ग्रामे हनिष्यसि रणे रिपून् ॥०३-२८६-१५॥
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः। सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥०३-२८६-१६॥
वैशम्पायन उवाच॥
एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत। ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥०३-२८६-१७॥
यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि। तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥०३-२८६-१८॥
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः। उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥०३-२८६-१९॥
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा। शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥०३-२८६-२०॥