03.292
वैशम्पायन उवाच॥
ततो गर्भः समभवत्पृथायाः पृथिवीपते। शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे ॥०३-२९२-१॥
सा बान्धवभयाद्बाला तं गर्भं विनिगूहती। धारयामास सुश्रोणी न चैनां बुबुधे जनः ॥०३-२९२-२॥
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते। कन्यापुरगतां बालां निपुणां परिरक्षणे ॥०३-२९२-३॥
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी। कन्यैव तस्य देवस्य प्रसादादमरप्रभम् ॥०३-२९२-४॥
तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम्। हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥०३-२९२-५॥
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी। मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः ॥०३-२९२-६॥
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा। श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत् ॥०३-२९२-७॥
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्। पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत् ॥०३-२९२-८॥
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले। उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु ॥०३-२९२-९॥
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक। दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये ॥०३-२९२-१०॥
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः। आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः ॥०३-२९२-११॥
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः। अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा ॥०३-२९२-१२॥
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः। येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल ॥०३-२९२-१३॥
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः। मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः ॥०३-२९२-१४॥
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च। वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम् ॥०३-२९२-१५॥
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः। यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम् ॥०३-२९२-१६॥
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति। यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज ॥०३-२९२-१७॥
को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्। दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम् ॥०३-२९२-१८॥
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम्। सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति ॥०३-२९२-१९॥
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्। अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम् ॥०३-२९२-२०॥
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे। हिमवद्वनसम्भूतं सिंहं केसरिणं यथा ॥०३-२९२-२१॥
एवं बहुविधं राजन्विलप्य करुणं पृथा। अवासृजत मञ्जूषामश्वनद्यास्तदा जले ॥०३-२९२-२२॥
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा। धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा ॥०३-२९२-२३॥
विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः। विवेश राजभवनं पुनः शोकातुरा ततः ॥०३-२९२-२४॥
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम्। चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह ॥०३-२९२-२५॥
गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम्। स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः ॥०३-२९२-२६॥
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम्। धारयामास तं गर्भं दैवं च विधिनिर्मितम् ॥०३-२९२-२७॥