03.293
वैशम्पायन उवाच॥
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा। सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥०३-२९३-१॥
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि। राधा नाम महाभागा न सा पुत्रमविन्दत ॥ अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥०३-२९३-२॥
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया। दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ॥ ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥०३-२९३-३॥
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी। ततो निवेदयामास सूतस्याधिरथस्य वै ॥०३-२९३-४॥
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्। यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ॥०३-२९३-५॥
तरुणादित्यसङ्काशं हेमवर्मधरं तथा। मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥०३-२९३-६॥
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः। अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥०३-२९३-७॥
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि। दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ॥०३-२९३-८॥
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम। इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥०३-२९३-९॥
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्। पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥०३-२९३-१०॥
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्। ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥०३-२९३-११॥
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्। नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥०३-२९३-१२॥
एवं स सूतपुत्रत्वं जगामामितविक्रमः। वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥०३-२९३-१३॥
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान्। चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ॥०३-२९३-१४॥
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः। दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥०३-२९३-१५॥
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि। सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ॥०३-२९३-१६॥
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्। लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥०३-२९३-१७॥
सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः। योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥०३-२९३-१८॥
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते। अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥०३-२९३-१९॥
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्। अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥०३-२९३-२०॥
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम्। स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥०३-२९३-२१॥
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः। नादेयं तस्य तत्काले किञ्चिदस्ति द्विजातिषु ॥०३-२९३-२२॥
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः। स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥०३-२९३-२३॥