Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.294
वैशम्पायन उवाच॥
देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः। दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ॥०३-२९४-१॥
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान्। किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥०३-२९४-२॥
ब्राह्मण उवाच॥
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम्। नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥०३-२९४-३॥
यदेतत्सहजं वर्म कुण्डले च तवानघ। एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥०३-२९४-४॥
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परन्तप। एष मे सर्वलाभानां लाभः परमको मतः ॥०३-२९४-५॥
कर्ण उवाच॥
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम्। तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ॥०३-२९४-६॥
वैशम्पायन उवाच॥
एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः। कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥०३-२९४-७॥
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि। नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥०३-२९४-८॥
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः। तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥०३-२९४-९॥
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे। तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ॥०३-२९४-१०॥
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्। प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव ॥०३-२९४-११॥
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च। गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥०३-२९४-१२॥
यदा नान्यं वरं वव्रे भगवान्पाकशासनः। ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ॥०३-२९४-१३॥
विदितो देवदेवेश प्रागेवासि मम प्रभो। न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥०३-२९४-१४॥
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम। अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥०३-२९४-१५॥
यदि दास्यामि ते देव कुण्डले कवचं तथा। वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥०३-२९४-१६॥
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्। हरस्व शक्र कामं मे न दद्यामहमन्यथा ॥०३-२९४-१७॥
शक्र उवाच॥
विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम्। तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥०३-२९४-१८॥
काममस्तु तथा तात तव कर्ण यथेच्छसि। वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ॥०३-२९४-१९॥
वैशम्पायन उवाच॥
ततः कर्णः प्रहृष्टस्तु उपसङ्गम्य वासवम्। अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः ॥०३-२९४-२०॥
कर्ण उवाच॥
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव। अमोघां शत्रुसङ्घानां घातनीं पृतनामुखे ॥०३-२९४-२१॥
वैशम्पायन उवाच॥
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः। शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥०३-२९४-२२॥
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्। गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ॥०३-२९४-२३॥
अमोघा हन्ति शतशः शत्रून्मम करच्युता। पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥०३-२९४-२४॥
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम्। गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥०३-२९४-२५॥
कर्ण उवाच॥
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे। गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ॥०३-२९४-२६॥
इन्द्र उवाच॥
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे। त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥०३-२९४-२७॥
यमाहुर्वेदविद्वांसो वराहमजितं हरिम्। नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥०३-२९४-२८॥
कर्ण उवाच॥
एवमप्यस्तु भगवन्नेकवीरवधे मम। अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ॥०३-२९४-२९॥
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते। निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ॥०३-२९४-३०॥
इन्द्र उवाच॥
न ते बीभत्सता कर्ण भविष्यति कथञ्चन। व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ॥०३-२९४-३१॥
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर। तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥०३-२९४-३२॥
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये। प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥०३-२९४-३३॥
कर्ण उवाच॥
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्। यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥०३-२९४-३४॥
वैशम्पायन उवाच॥
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते। शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥०३-२९४-३५॥
ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम्। दृष्ट्वा सर्वे सिद्धसङ्घाश्च नेदु; र्न ह्यस्यासीद्दुःखजो वै विकारः ॥०३-२९४-३६॥
ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम्। दृष्ट्वा कर्णं शस्त्रसङ्कृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम् ॥०३-२९४-३७॥
ततश्छित्त्वा कवचं दिव्यमङ्गा; त्तथैवार्द्रं प्रददौ वासवाय। तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः ॥०३-२९४-३८॥
ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा। कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात ॥०३-२९४-३९॥
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन्। तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः ॥०३-२९४-४०॥
जनमेजय उवाच॥
क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते। किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु ॥०३-२९४-४१॥
वैशम्पायन उवाच॥
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते। मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण ॥०३-२९४-४२॥
प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च। ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम् ॥०३-२९४-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.