Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.295
आरणेयपर्व
जनमेजय उवाच॥
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥०३-२९५-१॥
वैशम्पायन उवाच॥
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥०३-२९५-२॥
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः। स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥०३-२९५-३॥
अनुगुप्तफलाहाराः सर्व एव मिताशनाः। न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥०३-२९५-४॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥०३-२९५-५॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः। क्लेशमार्छन्त विपुलं सुखोदर्कं परन्तपाः ॥०३-२९५-६॥
अजातशत्रुमासीनं भ्रातृभिः सहितं वने। आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत् ॥०३-२९५-७॥
अरणीसहितं मह्यं समासक्तं वनस्पतौ। मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥०३-२९५-८॥
तदादाय गतो राजंस्त्वरमाणो महामृगः। आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥०३-२९५-९॥
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम्। अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥०३-२९५-१०॥
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः। धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥०३-२९५-११॥
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः। ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥०३-२९५-१२॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः। नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥०३-२९५-१३॥
तेषां प्रयतमानानां नादृश्यत महामृगः। अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥०३-२९५-१४॥
शीतलच्छायमासाद्य न्यग्रोधं गहने वने। क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥०३-२९५-१५॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा। अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥०३-२९५-१६॥
नास्मिन्कुले जातु ममज्ज धर्मो; न चालस्यादर्थलोपो बभूव। अनुत्तराः सर्वभूतेषु भूयः; सम्प्राप्ताः स्मः संशयं केन राजन् ॥०३-२९५-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.