Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.296
युधिष्ठिर उवाच॥
नापदामस्ति मर्यादा न निमित्तं न कारणम्। धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥०३-२९६-१॥
भीम उवाच॥
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा। न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥०३-२९६-२॥
अर्जुन उवाच॥
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः। अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ॥०३-२९६-३॥
सहदेव उवाच॥
शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत। स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥०३-२९६-४॥
वैशम्पायन उवाच॥
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्। आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥०३-२९६-५॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्। इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥०३-२९६-६॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम्। अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥०३-२९६-७॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्। सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥०३-२९६-८॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः। गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥०३-२९६-९॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्। प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥०३-२९६-१०॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्। पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥०३-२९६-११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥०३-२९६-१२॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥०३-२९६-१३॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः। अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ॥०३-२९६-१४॥
भ्राता चिरायते तात सहदेव तवाग्रजः। तं चैवानय सोदर्यं पानीयं च त्वमानय ॥०३-२९६-१५॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत। ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥०३-२९६-१६॥
भ्रातृशोकाभिसन्तप्तस्तृषया च प्रपीडितः। अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥०३-२९६-१७॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥०३-२९६-१८॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥०३-२९६-१९॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः। भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ॥ तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥०३-२९६-२०॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः। आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ॥०३-२९६-२१॥
यतः पुरुषशार्दूलौ पानीयहरणे गतौ। तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥०३-२९६-२२॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः। धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥०३-२९६-२३॥
नापश्यत्तत्र किञ्चित्स भूतं तस्मिन्महावने। सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥०३-२९६-२४॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे। किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥०३-२९६-२५॥
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे। ततः पास्यसि पानीयं हरिष्यसि च भारत ॥०३-२९६-२६॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय। यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥०३-२९६-२७॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः। ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥०३-२९६-२८॥
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ। अनेकैरिषुसङ्घातैरन्तरिक्षं ववर्ष ह ॥०३-२९६-२९॥
यक्ष उवाच॥
किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब। अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥०३-२९६-३०॥
वैशम्पायन उवाच॥
स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः। अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥०३-२९६-३१॥
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥०३-२९६-३२॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत। तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥०३-२९६-३३॥
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत। यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥०३-२९६-३४॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः। अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ॥ स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥०३-२९६-३५॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः। ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥०३-२९६-३६॥
यक्ष उवाच॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥०३-२९६-३७॥
वैशम्पायन उवाच॥
एवमुक्तस्ततो भीमो यक्षेणामिततेजसा। अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥०३-२९६-३८॥
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः। समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥०३-२९६-३९॥
अपेतजननिर्घोषं प्रविवेश महावनम्। रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥०३-२९६-४०॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम्। भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ॥०३-२९६-४१॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्। ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥०३-२९६-४२॥
उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः। केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ॥ श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥०३-२९६-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.