Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.297
यक्षप्रश्नाः
वैशम्पायन उवाच॥
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान्। युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ॥०३-२९७-१॥
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम्। भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ॥०३-२९७-२॥
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः। बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥०३-२९७-३॥
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित्। भूतं महदिदं मन्ये भ्रातरो येन मे हताः ॥ एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥०३-२९७-४॥
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम्। गान्धारराजरचितं सततं जिह्मबुद्धिना ॥०३-२९७-५॥
यस्य कार्यमकार्यं वा सममेव भवत्युत। कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥०३-२९७-६॥
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः। भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥०३-२९७-७॥
तस्यासीन्न विषेणेदमुदकं दूषितं यथा। मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥०३-२९७-८॥
एकैकशश्चौघबलानिमान्पुरुषसत्तमान्। कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥०३-२९७-९॥
एतेनाध्यवसायेन तत्तोयमवगाढवान्। गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥०३-२९७-१०॥
यक्ष उवाच॥
अहं बकः शैवलमत्स्यभक्षो; मया नीताः प्रेतवशं तवानुजाः। त्वं पञ्चमो भविता राजपुत्र; न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥०३-२९७-११॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥०३-२९७-१२॥
युधिष्ठिर उवाच॥
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्। पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥०३-२९७-१३॥
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च। चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥०३-२९७-१४॥
अतीव ते महत्कर्म कृतं बलवतां वर। यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ॥ विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥०३-२९७-१५॥
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम्। कौतूहलं महज्जातं साध्वसं चागतं मम ॥०३-२९७-१६॥
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः। पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥०३-२९७-१७॥
यक्ष उवाच॥
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः। मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥०३-२९७-१८॥
वैशम्पायन उवाच॥
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्। यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥०३-२९७-१९॥
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्। ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥०३-२९७-२०॥
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः। मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ॥०३-२९७-२१॥
यक्ष उवाच॥
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत्। बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ॥०३-२९७-२२॥
न पेयमुदकं राजन्प्राणानिह परीप्सता। पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ॥ प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥०३-२९७-२३॥
युधिष्ठिर उवाच॥
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम्। कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥०३-२९७-२४॥
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो। यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥०३-२९७-२५॥
यक्ष उवाच॥
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः। कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥०३-२९७-२६॥
युधिष्ठिर उवाच॥
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः। धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥०३-२९७-२७॥
यक्ष उवाच॥
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत्। केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥०३-२९७-२८॥
युधिष्ठिर उवाच॥
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत्। धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥०३-२९७-२९॥
यक्ष उवाच॥
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव। कश्चैषां मानुषो भावः किमेषामसतामिव ॥०३-२९७-३०॥
युधिष्ठिर उवाच॥
स्वाध्याय एषां देवत्वं तप एषां सतामिव। मरणं मानुषो भावः परिवादोऽसतामिव ॥०३-२९७-३१॥
यक्ष उवाच॥
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव। कश्चैषां मानुषो भावः किमेषामसतामिव ॥०३-२९७-३२॥
युधिष्ठिर उवाच॥
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव। भयं वै मानुषो भावः परित्यागोऽसतामिव ॥०३-२९७-३३॥
यक्ष उवाच॥
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः। का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥०३-२९७-३४॥
युधिष्ठिर उवाच॥
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः। वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥०३-२९७-३५॥
यक्ष उवाच॥
किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम्। किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥०३-२९७-३६॥
युधिष्ठिर उवाच॥
वर्षमापततां श्रेष्ठं बीजं निपततां वरम्। गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥०३-२९७-३७॥
यक्ष उवाच॥
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः। संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥०३-२९७-३८॥
युधिष्ठिर उवाच॥
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः। न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥०३-२९७-३९॥
यक्ष उवाच॥
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात्। किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥०३-२९७-४०॥
युधिष्ठिर उवाच॥
माता गुरुतरा भूमेः पिता उच्चतरश्च खात्। मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥०३-२९७-४१॥
यक्ष उवाच॥
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति। कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ॥०३-२९७-४२॥
युधिष्ठिर उवाच॥
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥०३-२९७-४३॥
यक्ष उवाच॥
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः। आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥०३-२९७-४४॥
युधिष्ठिर उवाच॥
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः। आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥०३-२९७-४५॥
यक्ष उवाच॥
किं स्विदेको विचरति जातः को जायते पुनः। किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥०३-२९७-४६॥
युधिष्ठिर उवाच॥
सूर्य एको विचरति चन्द्रमा जायते पुनः। अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥०३-२९७-४७॥
यक्ष उवाच॥
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः। किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥०३-२९७-४८॥
युधिष्ठिर उवाच॥
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः। सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥०३-२९७-४९॥
यक्ष उवाच॥
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा। उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥०३-२९७-५०॥
युधिष्ठिर उवाच॥
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा। उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥०३-२९७-५१॥
यक्ष उवाच॥
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम्। लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥०३-२९७-५२॥
युधिष्ठिर उवाच॥
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्। लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥०३-२९७-५३॥
यक्ष उवाच॥
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः। किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥०३-२९७-५४॥
युधिष्ठिर उवाच॥
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः। मनो यम्य न शोचन्ति सद्भिः सन्धिर्न जीर्यते ॥०३-२९७-५५॥
यक्ष उवाच॥
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति। किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥०३-२९७-५६॥
युधिष्ठिर उवाच॥
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति। कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ॥०३-२९७-५७॥
यक्ष उवाच॥
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत्। श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥०३-२९७-५८॥
युधिष्ठिर उवाच॥
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम्। मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥०३-२९७-५९॥
यक्ष उवाच॥
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम्। श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥०३-२९७-६०॥
युधिष्ठिर उवाच॥
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम्। श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे॥ ०३-२९७-६१॥
यक्ष उवाच॥
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप। पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥०३-२९७-६२॥
युधिष्ठिर उवाच॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः। यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥०३-२९७-६३॥
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च। अतीतानागते चोभे स वै सर्वधनी नरः ॥०३-२९७-६४॥
यक्ष उवाच॥
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः। तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥०३-२९७-६५॥
युधिष्यिर उवाच॥
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः। व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥०३-२९७-६६॥
यक्ष उवाच॥
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम्। स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥०३-२९७-६७॥
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम्। तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥०३-२९७-६८॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव। अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥०३-२९७-६९॥
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः। अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥०३-२९७-७०॥
युधिष्ठिर उवाच॥
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम्। आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥०३-२९७-७१॥
धर्मशीलः सदा राजा इति मां मानवा विदुः। स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥०३-२९७-७२॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः। मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥०३-२९७-७३॥
यक्ष उवाच॥
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम्। तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥०३-२९७-७४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.