04.003
युधिष्ठिर उवाच॥
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि। सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥०४-३-१॥
नकुल उवाच॥
अश्वबन्धो भविष्यामि विराटनृपतेरहम्। ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ॥०४-३-२॥
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते। प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥०४-३-३॥
ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः। तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥०४-३-४॥
युधिष्ठिर उवाच॥
सहदेव कथं तस्य समीपे विहरिष्यसि। किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥०४-३-५॥
सहदेव उवाच॥
गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः। प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ॥०४-३-६॥
तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते। निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ॥०४-३-७॥
अहं हि भवता गोषु सततं प्रकृतः पुरा। तत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥०४-३-८॥
लक्षणं चरितं चापि गवां यच्चापि मङ्गलम्। तत्सर्वं मे सुविदितमन्यच्चापि महीपते ॥०४-३-९॥
वृषभानपि जानामि राजन्पूजितलक्षणान्। येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥०४-३-१०॥
सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा। न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ॥०४-३-११॥
युधिष्ठिर उवाच॥
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी। मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥०४-३-१२॥
केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति। न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥०४-३-१३॥
सुकुमारी च बाला च राजपुत्री यशस्विनी। पतिव्रता महाभागा कथं नु विचरिष्यति ॥०४-३-१४॥
माल्यगन्धानलङ्कारान्वस्त्राणि विविधानि च। एतान्येवाभिजानाति यतो जाता हि भामिनी ॥०४-३-१५॥
द्रौपद्युवाच॥
सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत। नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥०४-३-१६॥
साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि। आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ॥०४-३-१७॥
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्। सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥०४-३-१८॥
युधिष्ठिर उवाच॥
कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत्। न पापमभिजानासि साधु साध्वीव्रते स्थिता ॥०४-३-१९॥