Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.004
युधिष्ठिर उवाच॥
कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ। मम चापि यथाबुद्धि रुचितानि विनिश्चयात् ॥०४-४-१॥
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु। सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥०४-४-२॥
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्। यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥०४-४-३॥
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः। पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥०४-४-४॥
सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः। गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥०४-४-५॥
धौम्य उवाच॥
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः। अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ॥०४-४-६॥
हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः। यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ॥०४-४-७॥
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि। अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ॥०४-४-८॥
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत्। तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ॥०४-४-९॥
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम्। आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ॥०४-४-१०॥
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः। न तत्रोपविशेज्जातु स राजवसतिं वसेत् ॥०४-४-११॥
न चानुशिष्येद्राजानमपृच्छन्तं कदाचन। तूष्णीं त्वेनमुपासीत काले समभिपूजयन् ॥०४-४-१२॥
असूयन्ति हि राजानो जनाननृतवादिनः। तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ॥०४-४-१३॥
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथञ्चन। अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥०४-४-१४॥
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि। एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ॥०४-४-१५॥
यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह। अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम् ॥०४-४-१६॥
यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत्। प्रमादमवहेलां च कोपं च परिवर्जयेत् ॥०४-४-१७॥
समर्थनासु सर्वासु हितं च प्रियमेव च। संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥०४-४-१८॥
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च। अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ॥०४-४-१९॥
नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः। अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ॥०४-४-२०॥
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत्। स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥०४-४-२१॥
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः। रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ॥ नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ॥०४-४-२२॥
न च संदर्शने किञ्चित्प्रवृद्धमपि सञ्जपेत्। अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥०४-४-२३॥
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत्। यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥०४-४-२४॥
शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः। प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ॥०४-४-२५॥
ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः। अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥०४-४-२६॥
यस्य कोपो महाबाधः प्रसादश्च महाफलः। कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ॥०४-४-२७॥
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत्। सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥०४-४-२८॥
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित्। नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥०४-४-२९॥
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा। स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥०४-४-३०॥
लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः। असंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥०४-४-३१॥
राजानं राजपुत्रं वा संवर्तयति यः सदा। अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥०४-४-३२॥
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः। न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥०४-४-३३॥
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः। उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ॥०४-४-३४॥
अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः। न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥०४-४-३५॥
श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत्। विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ॥०४-४-३६॥
अम्लानो बलवाञ्शूरश्छायेवानपगः सदा। सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥०४-४-३७॥
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्। अहं किं करवाणीति स राजवसतिं वसेत् ॥०४-४-३८॥
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा। आदिष्टो न विकल्पेत स राजवसतिं वसेत् ॥०४-४-३९॥
यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत्। दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ॥०४-४-४०॥
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत्। मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥०४-४-४१॥
न कर्मणि नियुक्तः सन्धनं किञ्चिदुपस्पृशेत्। प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ॥०४-४-४२॥
यानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति। तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥०४-४-४३॥
संवत्सरमिमं तात तथाशीला बुभूषवः। अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ ॥०४-४-४४॥
युधिष्ठिर उवाच॥
अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन। कुन्तीमृते मातरं नो विदुरं च महामतिम् ॥०४-४-४५॥
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति। तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥०४-४-४६॥
वैशम्पायन उवाच॥
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः। अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥०४-४-४७॥
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः। समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥०४-४-४८॥
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान्। याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ॥०४-४-४९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.