04.005
वैशम्पायन उवाच॥
ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः। बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः ॥०४-५-१॥
ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः। वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः ॥०४-५-२॥
विध्यन्तो मृगजातानि महेष्वासा महाबलाः। उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु ॥०४-५-३॥
अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः। लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात् ॥०४-५-४॥
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्। पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च ॥०४-५-५॥
व्यक्तं दूरे विराटस्य राजधानी भविष्यति। वसामेह परां रात्रिं बलवान्मे परिश्रमः ॥०४-५-६॥
युधिष्ठिर उवाच॥
धनञ्जय समुद्यम्य पाञ्चालीं वह भारत। राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः ॥०४-५-७॥
वैशम्पायन उवाच॥
तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव। सम्प्राप्य नगराभ्याशमवतारयदर्जुनः ॥०४-५-८॥
स राजधानीं सम्प्राप्य कौन्तेयोऽर्जुनमब्रवीत्। क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम् ॥०४-५-९॥
सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि। समुद्वेगं जनस्यास्य करिष्यामो न संशयः ॥०४-५-१०॥
ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः। एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा ॥०४-५-११॥
अर्जुन उवाच॥
इयं कूटे मनुष्येन्द्र गहना महती शमी। भीमशाखा दुरारोहा श्मशानस्य समीपतः ॥०४-५-१२॥
न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव। उत्पथे हि वने जाता मृगव्यालनिषेविते ॥०४-५-१३॥
समासज्यायुधान्यस्यां गच्छामो नगरं प्रति। एवमत्र यथाजोषं विहरिष्याम भारत ॥०४-५-१४॥
वैशम्पायन उवाच॥
एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम्। प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ ॥०४-५-१५॥
येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः ॥०४-५-१६॥
तदुदारं महाघोषं सपत्नगणसूदनम्। अपज्यमकरोत्पार्थो गाण्डीवमभयङ्करम् ॥०४-५-१७॥
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः। अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः ॥०४-५-१८॥
पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्प्रभुः। प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये ॥०४-५-१९॥
निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे। पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ॥०४-५-२०॥
सैन्धवं येन राजानं परामृषत चानघ। ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ॥०४-५-२१॥
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः। तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो युधि ॥०४-५-२२॥
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः। अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ॥०४-५-२३॥
खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान्। विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह ॥०४-५-२४॥
तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम्। यानि तस्यावकाशानि दृढरूपाण्यमन्यत ॥०४-५-२५॥
यत्र चापश्यत स वै तिरो वर्षाणि वर्षति। तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत ॥०४-५-२६॥
शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः। विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम् ॥ आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम् ॥०४-५-२७॥
अशीतिशतवर्षेयं माता न इति वादिनः। कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च ॥ समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते ॥०४-५-२८॥
आ गोपालाविपालेभ्य आचक्षाणाः परन्तपाः। आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः ॥०४-५-२९॥
जयो जयन्तो विजयो जयत्सेनो जयद्बलः। इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥०४-५-३०॥
ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्। अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ॥०४-५-३१॥