Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.006
वैशम्पायन उवाच॥
ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत्। वैडूर्यरूपान्प्रतिमुच्य काञ्चना; नक्षान्स कक्षे परिगृह्य वाससा ॥०४-६-१॥
नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः। महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः ॥०४-६-२॥
बालेन रूपेण नरर्षभो महा; नथार्चिरूपेण यथामरस्तथा। महाभ्रजालैरिव संवृतो रवि; र्यथानलो भस्मवृतश्च वीर्यवान् ॥०४-६-३॥
तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम्। मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते ॥ पप्रच्छ कोऽयं प्रथमं समेयिवा; ननेन योऽयं प्रसमीक्षते सभाम् ॥०४-६-४॥
न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम्। न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत् ॥०४-६-५॥
शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम्। समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः ॥०४-६-६॥
वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत्। सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम् ॥०४-६-७॥
इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो। तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसङ्गृहाण च ॥०४-६-८॥
कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः। गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम् ॥०४-६-९॥
युधिष्ठिर उवाच॥
युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः। अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः ॥०४-६-१०॥
विराट उवाच॥
ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव। प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति ॥०४-६-११॥
युधिष्ठिर उवाच॥
आप्तो विवादः परमो विशां पते; न विद्यते किञ्चन मत्स्य हीनतः। न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः ॥०४-६-१२॥
विराट उवाच॥
हन्यामवध्यं यदि तेऽप्रियं चरे; त्प्रव्राजयेयं विषयाद्द्विजांस्तथा। शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा ॥०४-६-१३॥
समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः। पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया ॥०४-६-१४॥
ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा। दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम ॥०४-६-१५॥
वैशम्पायन उवाच॥
एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा। उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत् ॥०४-६-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.