Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.007
वैशम्पायन उवाच॥
अथापरो भीमबलः श्रिया ज्वल; न्नुपाययौ सिंहविलासविक्रमः। खजं च दर्वीं च करेण धारय; न्नसिं च कालाङ्गमकोशमव्रणम् ॥०४-७-१॥
स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन्। सुकृष्णवासा गिरिराजसारवा; न्स मत्स्यराजं समुपेत्य तस्थिवान् ॥०४-७-२॥
तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान्। सिंहोन्नतांसोऽयमतीव रूपवान्; प्रदृश्यते को नु नरर्षभो युवा ॥०४-७-३॥
अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि सम्पदम्। तथास्य चित्तं ह्यपि संवितर्कय; न्नरर्षभस्याद्य न यामि तत्त्वतः ॥०४-७-४॥
ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः। उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम् ॥०४-७-५॥
विराट उवाच॥
न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे। श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह ॥०४-७-६॥
भीम उवाच॥
नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान्। आस्वादिता ये नृपते पुराभव; न्युधिष्ठिरेणापि नृपेण सर्वशः ॥०४-७-७॥
बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव। गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम् ॥०४-७-८॥
विराट उवाच॥
ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे। न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि ॥०४-७-९॥
यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः। नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः ॥०४-७-१०॥
वैशम्पायन उवाच॥
तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम्। उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन ॥०४-७-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.