04.008
वैशम्पायन उवाच॥
ततः केशान्समुत्क्षिप्य वेल्लिताग्राननिन्दितान्। जुगूह दक्षिणे पार्श्वे मृदूनसितलोचना ॥०४-८-१॥
वासश्च परिधायैकं कृष्णं सुमलिनं महत्। कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥०४-८-२॥
तां नराः परिधावन्तीं स्त्रियश्च समुपाद्रवन्। अपृच्छंश्चैव तां दृष्ट्वा का त्वं किं च चिकीर्षसि ॥०४-८-३॥
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता। कर्म चेच्छामि वै कर्तुं तस्य यो मां पुपुक्षति ॥०४-८-४॥
तस्या रूपेण वेषेण श्लक्ष्णया च तथा गिरा। नाश्रद्दधत तां दासीमन्नहेतोरुपस्थिताम् ॥०४-८-५॥
विराटस्य तु कैकेयी भार्या परमसंमता। अवलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥०४-८-६॥
सा समीक्ष्य तथारूपामनाथामेकवाससम्। समाहूयाब्रवीद्भद्रे का त्वं किं च चिकीर्षसि ॥०४-८-७॥
सा तामुवाच राजेन्द्र सैरन्ध्र्यहमुपागता। कर्म चेच्छाम्यहं कर्तुं तस्य यो मां पुपुक्षति ॥०४-८-८॥
सुदेष्णोवाच॥
नैवंरूपा भवन्त्येवं यथा वदसि भामिनि। प्रेषयन्ति च वै दासीर्दासांश्चैवंविधान्बहून् ॥०४-८-९॥
गूढगुल्फा संहतोरुस्त्रिगम्भीरा षडुन्नता। रक्ता पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥०४-८-१०॥
सुकेशी सुस्तनी श्यामा पीनश्रोणिपयोधरा। तेन तेनैव सम्पन्ना काश्मीरीव तुरङ्गमा ॥०४-८-११॥
स्वरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा। कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ॥०४-८-१२॥
का त्वं ब्रूहि यथा भद्रे नासि दासी कथञ्चन। यक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः ॥०४-८-१३॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी। इन्द्राणी वारुणी वा त्वं त्वष्टुर्धातुः प्रजापतेः ॥ देव्यो देवेषु विख्यातास्तासां त्वं कतमा शुभे ॥०४-८-१४॥
द्रौपद्युवाच॥
नास्मि देवी न गन्धर्वी नासुरी न च राक्षसी। सैरन्ध्री तु भुजिष्यास्मि सत्यमेतद्ब्रवीमि ते ॥०४-८-१५॥
केशाञ्जानाम्यहं कर्तुं पिंषे साधु विलेपनम्। ग्रथयिष्ये विचित्राश्च स्रजः परमशोभनाः ॥०४-८-१६॥
आराधयं सत्यभामां कृष्णस्य महिषीं प्रियाम्। कृष्णां च भार्यां पाण्डूनां कुरूणामेकसुन्दरीम् ॥०४-८-१७॥
तत्र तत्र चराम्येवं लभमाना सुशोभनम्। वासांसि यावच्च लभे तावत्तावद्रमे तथा ॥०४-८-१८॥
मालिनीत्येव मे नाम स्वयं देवी चकार सा। साहमभ्यागता देवि सुदेष्णे त्वन्निवेशनम् ॥०४-८-१९॥
सुदेष्णोवाच॥
मूर्ध्नि त्वां वासयेयं वै संशयो मे न विद्यते। नो चेदिह तु राजा त्वां गच्छेत्सर्वेण चेतसा ॥०४-८-२०॥
स्त्रियो राजकुले पश्य याश्चेमा मम वेश्मनि। प्रसक्तास्त्वां निरीक्षन्ते पुमांसं कं न मोहयेः ॥०४-८-२१॥
वृक्षांश्चावस्थितान्पश्य य इमे मम वेश्मनि। तेऽपि त्वां संनमन्तीव पुमांसं कं न मोहयेः ॥०४-८-२२॥
राजा विराटः सुश्रोणि दृष्ट्वा वपुरमानुषम्। विहाय मां वरारोहे त्वां गच्छेत्सर्वचेतसा ॥०४-८-२३॥
यं हि त्वमनवद्याङ्गि नरमायतलोचने। प्रसक्तमभिवीक्षेथाः स कामवशगो भवेत् ॥०४-८-२४॥
यश्च त्वां सततं पश्येत्पुरुषश्चारुहासिनि। एवं सर्वानवद्याङ्गि स चानङ्गवशो भवेत् ॥०४-८-२५॥
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः। तथाविधमहं मन्ये वासं तव शुचिस्मिते ॥०४-८-२६॥
द्रौपद्युवाच॥
नास्मि लभ्या विराटेन न चान्येन कथञ्चन। गन्धर्वाः पतयो मह्यं युवानः पञ्च भामिनि ॥०४-८-२७॥
पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्यचित्। रक्षन्ति ते च मां नित्यं दुःखाचारा तथा न्वहम् ॥०४-८-२८॥
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत्। प्रीयेयुस्तेन वासेन गन्धर्वाः पतयो मम ॥०४-८-२९॥
यो हि मां पुरुषो गृध्येद्यथान्याः प्राकृतस्त्रियः। तामेव स ततो रात्रिं प्रविशेदपरां तनुम् ॥०४-८-३०॥
न चाप्यहं चालयितुं शक्या केनचिदङ्गने। दुःखशीला हि गन्धर्वास्ते च मे बलवत्तराः ॥०४-८-३१॥
सुदेष्णोवाच॥
एवं त्वां वासयिष्यामि यथा त्वं नन्दिनीच्छसि। न च पादौ न चोच्छिष्टं स्प्रक्ष्यसि त्वं कथञ्चन ॥०४-८-३२॥
वैशम्पायन उवाच॥
एवं कृष्णा विराटस्य भार्यया परिसान्त्विता। न चैनां वेद तत्रान्यस्तत्त्वेन जनमेजय ॥०४-८-३३॥