Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.009
वैशम्पायन उवाच॥
सहदेवोऽपि गोपानां कृत्वा वेषमनुत्तमम्। भाषां चैषां समास्थाय विराटमुपयादथ ॥०४-९-१॥
तमायान्तमभिप्रेक्ष्य भ्राजमानं नरर्षभम्। समुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम् ॥०४-९-२॥
कस्य वा त्वं कुतो वा त्वं किं वा तात चिकीर्षसि। न हि मे दृष्टपूर्वस्त्वं तत्त्वं ब्रूहि नरर्षभ ॥०४-९-३॥
स प्राप्य राजानममित्रतापन; स्ततोऽब्रवीन्मेघमहौघनिःस्वनः। वैश्योऽस्मि नाम्नाहमरिष्टनेमि; र्गोसङ्ख्य आसं कुरुपुङ्गवानाम् ॥०४-९-४॥
वस्तुं त्वयीच्छामि विशां वरिष्ठ; तान्राजसिंहान्न हि वेद्मि पार्थान्। न शक्यते जीवितुमन्यकर्मणा; न च त्वदन्यो मम रोचते नृपः ॥०४-९-५॥
विराट उवाच॥
त्वं ब्राह्मणो यदि वा क्षत्रियोऽसि; समुद्रनेमीश्वररूपवानसि। आचक्ष्व मे तत्त्वममित्रकर्शन; न वैश्यकर्म त्वयि विद्यते समम् ॥०४-९-६॥
कस्यासि राज्ञो विषयादिहागतः; किं चापि शिल्पं तव विद्यते कृतम्। कथं त्वमस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम् ॥०४-९-७॥
सहदेव उवाच॥
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः। तस्याष्टशतसाहस्रा गवां वर्गाः शतं शताः ॥०४-९-८॥
अपरे दशसाहस्रा द्विस्तावन्तस्तथापरे। तेषां गोसङ्ख्य आसं वै तन्तिपालेति मां विदुः ॥०४-९-९॥
भूतं भव्यं भविष्यच्च यच्च सङ्ख्यागतं क्वचित्। न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशयोजनम् ॥०४-९-१०॥
गुणाः सुविदिता ह्यासन्मम तस्य महात्मनः। आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥०४-९-११॥
क्षिप्रं हि गावो बहुला भवन्ति; न तासु रोगो भवतीह कश्चित्। तैस्तैरुपायैर्विदितं मयैत; देतानि शिल्पानि मयि स्थितानि ॥०४-९-१२॥
वृषभांश्चापि जानामि राजन्पूजितलक्षणान्। येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥०४-९-१३॥
विराट उवाच॥
शतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः। पशून्सपालान्भवते ददाम्यहं; त्वदाश्रया मे पशवो भवन्त्विह ॥०४-९-१४॥
वैशम्पायन उवाच॥
तथा स राज्ञोऽविदितो विशां पते; उवास तत्रैव सुखं नरेश्वरः। न चैनमन्येऽपि विदुः कथञ्चन; प्रादाच्च तस्मै भरणं यथेप्सितम् ॥०४-९-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.