Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.010
वैशम्पायन उवाच॥
अथापरोऽदृश्यत रूपसम्पदा; स्त्रीणामलङ्कारधरो बृहत्पुमान्। प्राकारवप्रे प्रतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे ॥०४-१०-१॥
बहूंश्च दीर्घांश्च विकीर्य मूर्धजा; न्महाभुजो वारणमत्तविक्रमः। गतेन भूमिमभिकम्पयंस्तदा; विराटमासाद्य सभासमीपतः ॥०४-१०-२॥
तं प्रेक्ष्य राजोपगतं सभातले; सत्रप्रतिच्छन्नमरिप्रमाथिनम्। विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम् ॥०४-१०-३॥
सर्वानपृच्छच्च समीपचारिणः; कुतोऽयमायाति न मे पुरा श्रुतः। न चैनमूचुर्विदितं तदा नराः; सविस्मितं वाक्यमिदं नृपोऽब्रवीत् ॥०४-१०-४॥
सर्वोपपन्नः पुरुषो मनोरमः; श्यामो युवा वारणयूथपोपमः। विमुच्य कम्बू परिहाटके शुभे; विमुच्य वेणीमपिनह्य कुण्डले ॥०४-१०-५॥
शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा। आरुह्य यानं परिधावतां भवा; न्सुतैः समो मे भव वा मया समः ॥०४-१०-६॥
वृद्धो ह्यहं वै परिहारकामः; सर्वान्मत्स्यांस्तरसा पालयस्व। नैवंविधाः क्लीबरूपा भवन्ति; कथञ्चनेति प्रतिभाति मे मनः ॥०४-१०-७॥
अर्जुन उवाच॥
गायामि नृत्याम्यथ वादयामि; भद्रोऽस्मि नृत्ते कुशलोऽस्मि गीते। त्वमुत्तरायाः परिदत्स्व मां स्वयं; भवामि देव्या नरदेव नर्तकः ॥०४-१०-८॥
इदं तु रूपं मम येन किं नु त; त्प्रकीर्तयित्वा भृशशोकवर्धनम्। बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम् ॥०४-१०-९॥
विराट उवाच॥
ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश्च तादृशीः। इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं त्वमर्हसि ॥०४-१०-१०॥
वैशम्पायन उवाच॥
बृहन्नडां तामभिवीक्ष्य मत्स्यरा; ट्कलासु नृत्ते च तथैव वादिते। अपुंस्त्वमप्यस्य निशम्य च स्थिरं; ततः कुमारीपुरमुत्ससर्ज तम् ॥०४-१०-११॥
स शिक्षयामास च गीतवादितं; सुतां विराटस्य धनञ्जयः प्रभुः। सखीश्च तस्याः परिचारिकास्तथा; प्रियश्च तासां स बभूव पाण्डवः ॥०४-१०-१२॥
तथा स सत्रेण धनञ्जयोऽवस; त्प्रियाणि कुर्वन्सह ताभिरात्मवान्। तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्यथवान्तरेचराः ॥०४-१०-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.