Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.011
वैशम्पायन उवाच॥
अथापरोऽदृश्यत पाण्डवः प्रभु; र्विराटराज्ञस्तुरगान्समीक्षतः। तमापतन्तं ददृशे पृथग्जनो; विमुक्तमभ्रादिव सूर्यमण्डलम् ॥०४-११-१॥
स वै हयानैक्षत तांस्ततस्ततः; समीक्षमाणं च ददर्श मत्स्यराट्। ततोऽब्रवीत्ताननुगानमित्रहा; कुतोऽयमायाति नरोऽमरप्रभः ॥०४-११-२॥
अयं हयान्वीक्षति मामकान्दृढं; ध्रुवं हयज्ञो भविता विचक्षणः। प्रवेश्यतामेष समीपमाशु मे; विभाति वीरो हि यथामरस्तथा ॥०४-११-३॥
अभ्येत्य राजानममित्रहाब्रवी; ज्जयोऽस्तु ते पार्थिव भद्रमस्तु च। हयेषु युक्तो नृप संमतः सदा; तवाश्वसूतो निपुणो भवाम्यहम् ॥०४-११-४॥
विराट उवाच॥
ददामि यानानि धनं निवेशनं; ममाश्वसूतो भवितुं त्वमर्हसि। कुतोऽसि कस्यासि कथं त्वमागतः; प्रब्रूहि शिल्पं तव विद्यते च यत् ॥०४-११-५॥
नकुल उवाच॥
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः। तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥०४-११-६॥
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः। दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥०४-११-७॥
न कातरं स्यान्मम जातु वाहनं; न मेऽस्ति दुष्टा वडवा कुतो हयाः। जनस्तु मामाह स चापि पाण्डवो; युधिष्ठिरो ग्रन्थिकमेव नामतः ॥०४-११-८॥
विराट उवाच॥
यदस्ति किञ्चिन्मम वाजिवाहनं; तदस्तु सर्वं त्वदधीनमद्य वै। ये चापि केचिन्मम वाजियोजका; स्त्वदाश्रयाः सारथयश्च सन्तु मे ॥०४-११-९॥
इदं तवेष्टं यदि वै सुरोपम; ब्रवीहि यत्ते प्रसमीक्षितं वसु। न तेऽनुरूपं हयकर्म विद्यते; प्रभासि राजेव हि संमतो मम ॥०४-११-१०॥
युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं प्रियदर्श दर्शनम्। कथं तु भृत्यैः स विनाकृतो वने; वसत्यनिन्द्यो रमते च पाण्डवः ॥०४-११-११॥
वैशम्पायन उवाच॥
तथा स गन्धर्ववरोपमो युवा; विराटराज्ञा मुदितेन पूजितः। न चैनमन्येऽपि विदुः कथञ्चन; प्रियाभिरामं विचरन्तमन्तरा ॥०४-११-१२॥
एवं हि मत्स्ये न्यवसन्त पाण्डवा; यथाप्रतिज्ञाभिरमोघदर्शनाः। अज्ञातचर्यां व्यचरन्समाहिताः; समुद्रनेमीपतयोऽतिदुःखिताः ॥०४-११-१३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.