Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.012
जनमेजय उवाच॥
एवं मत्स्यस्य नगरे वसन्तस्तत्र पाण्डवाः। अत ऊर्ध्वं महावीर्याः किमकुर्वन्त वै द्विज ॥०४-१२-१॥
वैशम्पायन उवाच॥
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः। आराधयन्तो राजानं यदकुर्वन्त तच्छृणु ॥०४-१२-२॥
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः। तथैव च विराटस्य सपुत्रस्य विशां पते ॥०४-१२-३॥
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः। अक्षवत्यां यथाकामं सूत्रबद्धानिव द्विजान् ॥०४-१२-४॥
अज्ञातं च विराटस्य विजित्य वसु धर्मराट्। भ्रातृभ्यः पुरुषव्याघ्रो यथार्हं स्म प्रयच्छति ॥०४-१२-५॥
भीमसेनोऽपि मांसानि भक्ष्याणि विविधानि च। अतिसृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे ॥०४-१२-६॥
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः। विक्रीणानश्च सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥०४-१२-७॥
सहदेवोऽपि गोपानां वेषमास्थाय पाण्डवः। दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥०४-१२-८॥
नकुलोऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम्। तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥०४-१२-९॥
कृष्णापि सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी। यथा पुनरविज्ञाता तथा चरति भामिनी ॥०४-१२-१०॥
एवं सम्पादयन्तस्ते तथान्योन्यं महारथाः। प्रेक्षमाणास्तदा कृष्णामूषुश्छन्ना नराधिप ॥०४-१२-११॥
अथ मासे चतुर्थे तु ब्रह्मणः सुमहोत्सवः। आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥०४-१२-१२॥
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः। महाकाया महावीर्याः कालखञ्जा इवासुराः ॥०४-१२-१३॥
वीर्योन्नद्धा बलोदग्रा राज्ञा समभिपूजिताः। सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ॥ असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसंनिधौ ॥०४-१२-१४॥
तेषामेको महानासीत्सर्वमल्लान्समाह्वयत्। आवल्गमानं तं रङ्गे नोपतिष्ठति कश्चन ॥०४-१२-१५॥
यदा सर्वे विमनसस्ते मल्ला हतचेतसः। अथ सूदेन तं मल्लं योधयामास मत्स्यराट् ॥०४-१२-१६॥
चोद्यमानस्ततो भीमो दुःखेनैवाकरोन्मतिम्। न हि शक्नोति विवृते प्रत्याख्यातुं नराधिपम् ॥०४-१२-१७॥
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन्। प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥०४-१२-१८॥
बबन्ध कक्ष्यां कौन्तेयस्ततस्तं हर्षयञ्जनम्। ततस्तं वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥०४-१२-१९॥
तावुभौ सुमहोत्साहावुभौ तीव्रपराक्रमौ। मत्ताविव महाकायौ वारणौ षष्टिहायनौ ॥०४-१२-२०॥
चकर्ष दोर्भ्यामुत्पाट्य भीमो मल्लममित्रहा। विनदन्तमभिक्रोशञ्शार्दूल इव वारणम् ॥०४-१२-२१॥
तमुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान्। ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥०४-१२-२२॥
भ्रामयित्वा शतगुणं गतसत्त्वमचेतनम्। प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥०४-१२-२३॥
तस्मिन्विनिहते मल्ले जीमूते लोकविश्रुते। विराटः परमं हर्षमगच्छद्बान्धवैः सह ॥०४-१२-२४॥
संहर्षात्प्रददौ वित्तं बहु राजा महामनाः। बल्लवाय महारङ्गे यथा वैश्रवणस्तथा ॥०४-१२-२५॥
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान्। विनिघ्नन्मत्स्यराजस्य प्रीतिमावहदुत्तमाम् ॥०४-१२-२६॥
यदास्य तुल्यः पुरुषो न कश्चित्तत्र विद्यते। ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥०४-१२-२७॥
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः। योध्यते स्म विराटेन सिंहैर्मत्तैर्महाबलैः ॥०४-१२-२८॥
बीभत्सुरपि गीतेन सुनृत्तेन च पाण्डवः। विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥०४-१२-२९॥
अश्वैर्विनीतैर्जवनैस्तत्र तत्र समागतैः। तोषयामास नकुलो राजानं राजसत्तम ॥०४-१२-३०॥
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु। विनीतान्वृषभान्दृष्ट्वा सहदेवस्य चाभिभो ॥०४-१२-३१॥
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः। कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥०४-१२-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.