04.013
कीचकवधपर्व
वैशम्पायन उवाच॥
वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा। महारथेषु छन्नेषु मासा दश समत्ययुः ॥०४-१३-१॥
याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते। अवसत्परिचारार्हा सुदुःखं जनमेजय ॥०४-१३-२॥
तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने। सेनापतिर्विराटस्य ददर्श जलजाननाम् ॥०४-१३-३॥
तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव। कीचकः कामयामास कामबाणप्रपीडितः ॥०४-१३-४॥
स तु कामाग्निसन्तप्तः सुदेष्णामभिगम्य वै। प्रहसन्निव सेनानीरिदं वचनमब्रवीत् ॥०४-१३-५॥
नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा। रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी ॥०४-१३-६॥
का देवरूपा हृदयङ्गमा शुभे; आचक्ष्व मे का च कुतश्च शोभना। चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम् ॥०४-१३-७॥
अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम्। अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किञ्चन ॥०४-१३-८॥
प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम्। मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम ॥०४-१३-९॥
ततः सुदेष्णामनुमन्त्र्य कीचक; स्ततः समभ्येत्य नराधिपात्मजाम्। उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने ॥०४-१३-१०॥
इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि। अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती ॥०४-१३-११॥
त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि। अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने ॥०४-१३-१२॥
द्रौपद्युवाच॥
अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे। विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम् ॥०४-१३-१३॥
परदारास्मि भद्रं ते न युक्तं त्वयि साम्प्रतम्। दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥०४-१३-१४॥
परदारे न ते बुद्धिर्जातु कार्या कथञ्चन। विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम् ॥०४-१३-१५॥
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः। अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम् ॥०४-१३-१६॥
मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम्। दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम् ॥०४-१३-१७॥
न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम। ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥०४-१३-१८॥
अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि। यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम् ॥ तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥०४-१३-१९॥
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि। तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः ॥०४-१३-२०॥
त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक। किं मातुरङ्के शयितो यथा शिशु; श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥०४-१३-२१॥