Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.017
द्रौपद्युवाच॥
अशोच्यं नु कुतस्तस्या यस्या भर्ता युधिष्ठिरः। जानन्सर्वाणि दुःखानि किं मां त्वं परिपृच्छसि ॥०४-१७-१॥
यन्मां दासीप्रवादेन प्रातिकामी तदानयत्। सभायां पार्षदो मध्ये तन्मां दहति भारत ॥०४-१७-२॥
पार्थिवस्य सुता नाम का नु जीवेत मादृशी। अनुभूय भृशं दुःखमन्यत्र द्रौपदीं प्रभो ॥०४-१७-३॥
वनवासगतायाश्च सैन्धवेन दुरात्मना। परामर्शं द्वितीयं च सोढुमुत्सहते नु का ॥०४-१७-४॥
मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः। कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥०४-१७-५॥
एवं बहुविधैः क्लेशैः क्लिश्यमानां च भारत। न मां जानासि कौन्तेय किं फलं जीवितेन मे ॥०४-१७-६॥
योऽयं राज्ञो विराटस्य कीचको नाम भारत। सेनानीः पुरुषव्याघ्र स्यालः परमदुर्मतिः ॥०४-१७-७॥
स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि। नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥०४-१७-८॥
तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन्। कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥०४-१७-९॥
भ्रातरं च विगर्हस्व ज्येष्ठं दुर्द्यूतदेविनम्। यस्यास्मि कर्मणा प्राप्ता दुःखमेतदनन्तकम् ॥०४-१७-१०॥
को हि राज्यं परित्यज्य सर्वस्वं चात्मना सह। प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥०४-१७-११॥
यदि निष्कसहस्रेण यच्चान्यत्सारवद्धनम्। सायम्प्रातरदेविष्यदपि संवत्सरान्बहून् ॥०४-१७-१२॥
रुक्मं हिरण्यं वासांसि यानं युग्यमजाविकम्। अश्वाश्वतरसङ्घांश्च न जातु क्षयमावहेत् ॥०४-१७-१३॥
सोऽयं द्यूतप्रवादेन श्रिया प्रत्यवरोपितः। तूष्णीमास्ते यथा मूढः स्वानि कर्माणि चिन्तयन् ॥०४-१७-१४॥
दश नागसहस्राणि पद्मिनां हेममालिनाम्। यं यान्तमनुयान्तीह सोऽयं द्यूतेन जीवति ॥०४-१७-१५॥
तथा शतसहस्राणि नृणाममिततेजसाम्। उपासते महाराजमिन्द्रप्रस्थे युधिष्ठिरम् ॥०४-१७-१६॥
शतं दासीसहस्राणि यस्य नित्यं महानसे। पात्रीहस्तं दिवारात्रमतिथीन्भोजयन्त्युत ॥०४-१७-१७॥
एष निष्कसहस्राणि प्रदाय ददतां वरः। द्यूतजेन ह्यनर्थेन महता समुपावृतः ॥०४-१७-१८॥
एनं हि स्वरसम्पन्ना बहवः सूतमागधाः। सायम्प्रातरुपातिष्ठन्सुमृष्टमणिकुण्डलाः ॥०४-१७-१९॥
सहस्रमृषयो यस्य नित्यमासन्सभासदः। तपःश्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः ॥०४-१७-२०॥
अन्धान्वृद्धांस्तथानाथान्सर्वान्राष्ट्रेषु दुर्गतान्। बिभर्त्यविमना नित्यमानृशंस्याद्युधिष्ठिरः ॥०४-१७-२१॥
स एष निरयं प्राप्तो मत्स्यस्य परिचारकः। सभायां देविता राज्ञः कङ्को ब्रूते युधिष्ठिरः ॥०४-१७-२२॥
इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः। आसन्बलिभृतः सर्वे सोऽद्यान्यैर्भृतिमिच्छति ॥०४-१७-२३॥
पार्थिवाः पृथिवीपाला यस्यासन्वशवर्तिनः। स वशे विवशो राजा परेषामद्य वर्तते ॥०४-१७-२४॥
प्रताप्य पृथिवीं सर्वां रश्मिवानिव तेजसा। सोऽयं राज्ञो विराटस्य सभास्तारो युधिष्ठिरः ॥०४-१७-२५॥
यमुपासन्त राजानः सभायामृषिभिः सह। तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥०४-१७-२६॥
अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम्। दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ॥०४-१७-२७॥
उपास्ते स्म सभायां यं कृत्स्ना वीर वसुन्धरा। तमुपासीनमद्यान्यं पश्य भारत भारतम् ॥०४-१७-२८॥
एवं बहुविधैर्दुःखैः पीड्यमानामनाथवत्। शोकसागरमध्यस्थां किं मां भीम न पश्यसि ॥०४-१७-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.