Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.021
भीमसेन उवाच॥
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे। अद्य तं सूदयिष्यामि कीचकं सहबान्धवम् ॥०४-२१-१॥
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन सङ्गमम्। दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते ॥०४-२१-२॥
यैषा नर्तनशाला वै मत्स्यराजेन कारिता। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥०४-२१-३॥
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्। तत्रास्य दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ॥०४-२१-४॥
यथा च त्वां न पश्येयुः कुर्वाणां तेन संविदम्। कुर्यास्तथा त्वं कल्याणि यथा संनिहितो भवेत् ॥०४-२१-५॥
वैशम्पायन उवाच॥
तथा तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ। रात्रिशेषं तदत्युग्रं धारयामासतुर्हृदा ॥०४-२१-६॥
तस्यां रात्र्यां व्यतीतायां प्रातरुत्थाय कीचकः। गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत् ॥०४-२१-७॥
सभायां पश्यतो राज्ञः पातयित्वा पदाहनम्। न चैवालभथास्त्राणमभिपन्ना बलीयसा ॥०४-२१-८॥
प्रवादेन हि मत्स्यानां राजा नाम्नायमुच्यते। अहमेव हि मत्स्यानां राजा वै वाहिनीपतिः ॥०४-२१-९॥
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते। अह्नाय तव सुश्रोणि शतं निष्कान्ददाम्यहम् ॥०४-२१-१०॥
दासीशतं च ते दद्यां दासानामपि चापरम्। रथं चाश्वतरीयुक्तमस्तु नौ भीरु सङ्गमः ॥०४-२१-११॥
द्रौपद्युवाच॥
एकं मे समयं त्वद्य प्रतिपद्यस्व कीचक। न त्वां सखा वा भ्राता वा जानीयात्सङ्गतं मया ॥०४-२१-१२॥
अवबोधाद्धि भीतास्मि गन्धर्वाणां यशस्विनाम्। एवं मे प्रतिजानीहि ततोऽहं वशगा तव ॥०४-२१-१३॥
कीचक उवाच॥
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे। एको भद्रे गमिष्यामि शून्यमावसथं तव ॥०४-२१-१४॥
समागमार्थं रम्भोरु त्वया मदनमोहितः। यथा त्वां नावभोत्स्यन्ति गन्धर्वाः सूर्यवर्चसः ॥०४-२१-१५॥
द्रौपद्युवाच॥
यदिदं नर्तनागारं मत्स्यराजेन कारितम्। दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥०४-२१-१६॥
तमिस्रे तत्र गच्छेथा गन्धर्वास्तन्न जानते। तत्र दोषः परिहृतो भविष्यति न संशयः ॥०४-२१-१७॥
वैशम्पायन उवाच॥
तमर्थं प्रतिजल्पन्त्याः कृष्णायाः कीचकेन ह। दिवसार्धं समभवन्मासेनैव समं नृप ॥०४-२१-१८॥
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः। सैरन्ध्रीरूपिणं मूढो मृत्युं तं नावबुद्धवान् ॥०४-२१-१९॥
गन्धाभरणमाल्येषु व्यासक्तः स विशेषतः। अलञ्चकार सोऽऽत्मानं सत्वरः काममोहितः ॥०४-२१-२०॥
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्। अनुचिन्तयतश्चापि तामेवायतलोचनाम् ॥०४-२१-२१॥
आसीदभ्यधिका चास्य श्रीः श्रियं प्रमुमुक्षतः। निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः ॥०४-२१-२२॥
कृतसम्प्रत्ययस्तत्र कीचकः काममोहितः। नाजानाद्दिवसं यान्तं चिन्तयानः समागमम् ॥०४-२१-२३॥
ततस्तु द्रौपदी गत्वा तदा भीमं महानसे। उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात् ॥०४-२१-२४॥
तमुवाच सुकेशान्ता कीचकस्य मया कृतः। सङ्गमो नर्तनागारे यथावोचः परन्तप ॥०४-२१-२५॥
शून्यं स नर्तनागारमागमिष्यति कीचकः। एको निशि महाबाहो कीचकं तं निषूदय ॥०४-२१-२६॥
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्। गत्वा त्वं नर्तनागारं निर्जीवं कुरु पाण्डव ॥०४-२१-२७॥
दर्पाच्च सूतपुत्रोऽसौ गन्धर्वानवमन्यते। तं त्वं प्रहरतां श्रेष्ठ नडं नाग इवोद्धर ॥०४-२१-२८॥
अश्रु दुःखाभिभूताया मम मार्जस्व भारत। आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च ॥०४-२१-२९॥
भीमसेन उवाच॥
स्वागतं ते वरारोहे यन्मा वेदयसे प्रियम्। न ह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि ॥०४-२१-३०॥
या मे प्रीतिस्त्वयाख्याता कीचकस्य समागमे। हत्वा हिडिम्बं सा प्रीतिर्ममासीद्वरवर्णिनि ॥०४-२१-३१॥
सत्यं भ्रातॄंश्च धर्मं च पुरस्कृत्य ब्रवीमि ते। कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा ॥०४-२१-३२॥
तं गह्वरे प्रकाशे वा पोथयिष्यामि कीचकम्। अथ चेदवभोत्स्यन्ति हंस्ये मत्स्यानपि ध्रुवम् ॥०४-२१-३३॥
ततो दुर्योधनं हत्वा प्रतिपत्स्ये वसुन्धराम्। कामं मत्स्यमुपास्तां हि कुन्तीपुत्रो युधिष्ठिरः ॥०४-२१-३४॥
द्रौपद्युवाच॥
यथा न सन्त्यजेथास्त्वं सत्यं वै मत्कृते विभो। निगूढस्त्वं तथा वीर कीचकं विनिपातय ॥०४-२१-३५॥
भीमसेन उवाच॥
एवमेतत्करिष्यामि यथा त्वं भीरु भाषसे। अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ॥०४-२१-३६॥
नागो बिल्वमिवाक्रम्य पोथयिष्याम्यहं शिरः। अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः ॥०४-२१-३७॥
वैशम्पायन उवाच॥
भीमोऽथ प्रथमं गत्वा रात्रौ छन्न उपाविशत्। मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत्स कीचकम् ॥०४-२१-३८॥
कीचकश्चाप्यलङ्कृत्य यथाकाममुपाव्रजत्। तां वेलां नर्तनागारे पाञ्चालीसङ्गमाशया ॥०४-२१-३९॥
मन्यमानः स सङ्केतमागारं प्राविशच्च तम्। प्रविश्य च स तद्वेश्म तमसा संवृतं महत् ॥०४-२१-४०॥
पूर्वागतं ततस्तत्र भीममप्रतिमौजसम्। एकान्तमास्थितं चैनमाससाद सुदुर्मतिः ॥०४-२१-४१॥
शयानं शयने तत्र मृत्युं सूतः परामृशत्। जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन ह ॥०४-२१-४२॥
उपसङ्गम्य चैवैनं कीचकः काममोहितः। हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत ॥०४-२१-४३॥
प्रापितं ते मया वित्तं बहुरूपमनन्तकम्। तत्सर्वं त्वां समुद्दिश्य सहसा समुपागतः ॥०४-२१-४४॥
नाकस्मान्मां प्रशंसन्ति सदा गृहगताः स्त्रियः। सुवासा दर्शनीयश्च नान्योऽस्ति त्वादृशः पुमान् ॥०४-२१-४५॥
भीमसेन उवाच॥
दिष्ट्या त्वं दर्शनीयोऽसि दिष्ट्यात्मानं प्रशंससि। ईदृशस्तु त्वया स्पर्शः स्पृष्टपूर्वो न कर्हिचित् ॥०४-२१-४६॥
वैशम्पायन उवाच॥
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः। समुत्पत्य च कौन्तेयः प्रहस्य च नराधमम् ॥ भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु ॥०४-२१-४७॥
स केशेषु परामृष्टो बलेन बलिनां वरः। आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम् ॥०४-२१-४८॥
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः। वसन्ते वाशिताहेतोर्बलवद्गजयोरिव ॥०४-२१-४९॥
ईषदागलितं चापि क्रोधाच्चलपदं स्थितम्। कीचको बलवान्भीमं जानुभ्यामाक्षिपद्भुवि ॥०४-२१-५०॥
पातितो भुवि भीमस्तु कीचकेन बलीयसा। उत्पपाताथ वेगेन दण्डाहत इवोरगः ॥०४-२१-५१॥
स्पर्धया च बलोन्मत्तौ तावुभौ सूतपाण्डवौ। निशीथे पर्यकर्षेतां बलिनौ निशि निर्जने ॥०४-२१-५२॥
ततस्तद्भवनश्रेष्ठं प्राकम्पत मुहुर्मुहुः। बलवच्चापि सङ्क्रुद्धावन्योन्यं तावगर्जताम् ॥०४-२१-५३॥
तलाभ्यां तु स भीमेन वक्षस्यभिहतो बली। कीचको रोषसन्तप्तः पदान्न चलितः पदम् ॥०४-२१-५४॥
मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम्। बलादहीयत तदा सूतो भीमबलार्दितः ॥०४-२१-५५॥
तं हीयमानं विज्ञाय भीमसेनो महाबलः। वक्षस्यानीय वेगेन ममन्थैनं विचेतसम् ॥०४-२१-५६॥
क्रोधाविष्टो विनिःश्वस्य पुनश्चैनं वृकोदरः। जग्राह जयतां श्रेष्ठः केशेष्वेव तदा भृशम् ॥०४-२१-५७॥
गृहीत्वा कीचकं भीमो विरुराव महाबलः। शार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम् ॥०४-२१-५८॥
तस्य पादौ च पाणी च शिरो ग्रीवां च सर्वशः। काये प्रवेशयामास पशोरिव पिनाकधृक् ॥०४-२१-५९॥
तं संमथितसर्वाङ्गं मांसपिण्डोपमं कृतम्। कृष्णायै दर्शयामास भीमसेनो महाबलः ॥०४-२१-६०॥
उवाच च महातेजा द्रौपदीं पाण्डुनन्दनः। पश्यैनमेहि पाञ्चालि कामुकोऽयं यथा कृतः ॥०४-२१-६१॥
तथा स कीचकं हत्वा गत्वा रोषस्य वै शमम्। आमन्त्र्य द्रौपदीं कृष्णां क्षिप्रमायान्महानसम् ॥०४-२१-६२॥
कीचकं घातयित्वा तु द्रौपदी योषितां वरा। प्रहृष्टा गतसन्तापा सभापालानुवाच ह ॥०४-२१-६३॥
कीचकोऽयं हतः शेते गन्धर्वैः पतिभिर्मम। परस्त्रीकामसंमत्तः समागच्छत पश्यत ॥०४-२१-६४॥
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः। सहसैव समाजग्मुरादायोल्काः सहस्रशः ॥०४-२१-६५॥
ततो गत्वाथ तद्वेश्म कीचकं विनिपातितम्। गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम् ॥०४-२१-६६॥
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरस्तथा। इति स्म तं परीक्षन्ते गन्धर्वेण हतं तदा ॥०४-२१-६७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.