04.022
वैशम्पायन उवाच॥
तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः। रुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः ॥०४-२२-१॥
सर्वे संहृष्टरोमाणः सन्त्रस्ताः प्रेक्ष्य कीचकम्। तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम् ॥०४-२२-२॥
पोथितं भीमसेनेन तमिन्द्रेणेव दानवम्। संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः ॥०४-२२-३॥
ददृशुस्ते ततः कृष्णां सूतपुत्राः समागताः। अदूरादनवद्याङ्गीं स्तम्भमालिङ्ग्य तिष्ठतीम् ॥०४-२२-४॥
समवेतेषु सूतेषु तानुवाचोपकीचकः। हन्यतां शीघ्रमसती यत्कृते कीचको हतः ॥०४-२२-५॥
अथ वा नेह हन्तव्या दह्यतां कामिना सह। मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा ॥०४-२२-६॥
ततो विराटमूचुस्ते कीचकोऽस्याः कृते हतः। सहाद्यानेन दह्येत तदनुज्ञातुमर्हसि ॥०४-२२-७॥
पराक्रमं तु सूतानां मत्वा राजान्वमोदत। सैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते ॥०४-२२-८॥
तां समासाद्य वित्रस्तां कृष्णां कमललोचनाम्। मोमुह्यमानां ते तत्र जगृहुः कीचका भृशम् ॥०४-२२-९॥
ततस्तु तां समारोप्य निबध्य च सुमध्यमाम्। जग्मुरुद्यम्य ते सर्वे श्मशानमभितस्तदा ॥०४-२२-१०॥
ह्रियमाणा तु सा राजन्सूतपुत्रैरनिन्दिता। प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती ॥०४-२२-११॥
द्रौपद्युवाच॥
जयो जयन्तो विजयो जयत्सेनो जयद्बलः। ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥०४-२२-१२॥
येषां ज्यातलनिर्घोषो विस्फूर्जितमिवाशनेः। व्यश्रूयत महायुद्धे भीमघोषस्तरस्विनाम् ॥०४-२२-१३॥
रथघोषश्च बलवान्गन्धर्वाणां यशस्विनाम्। ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम् ॥०४-२२-१४॥
वैशम्पायन उवाच॥
तस्यास्ताः कृपणा वाचः कृष्णायाः परिदेविताः। श्रुत्वैवाभ्यपतद्भीमः शयनादविचारयन् ॥०४-२२-१५॥
भीमसेन उवाच॥
अहं शृणोमि ते वाचं त्वया सैरन्ध्रि भाषिताम्। तस्मात्ते सूतपुत्रेभ्यो न भयं भीरु विद्यते ॥०४-२२-१६॥
वैशम्पायन उवाच॥
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया। ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च ॥ अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा ॥०४-२२-१७॥
स भीमसेनः प्राकारादारुज्य तरसा द्रुमम्। श्मशानाभिमुखः प्रायाद्यत्र ते कीचका गताः ॥०४-२२-१८॥
स तं वृक्षं दशव्यामं सस्कन्धविटपं बली। प्रगृह्याभ्यद्रवत्सूतान्दण्डपाणिरिवान्तकः ॥०४-२२-१९॥
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः। भूमौ निपतिता वृक्षाः सङ्घशस्तत्र शेरते ॥०४-२२-२०॥
तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम्। वित्रेसुः सर्वतः सूता विषादभयकम्पिताः ॥०४-२२-२१॥
तमन्तकमिवायान्तं गन्धर्वं प्रेक्ष्य ते तदा। दिधक्षन्तस्तदा ज्येष्ठं भ्रातरं ह्युपकीचकाः ॥ परस्परमथोचुस्ते विषादभयकम्पिताः ॥०४-२२-२२॥
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्। सैरन्ध्री मुच्यतां शीघ्रं महन्नो भयमागतम् ॥०४-२२-२३॥
ते तु दृष्ट्वा तमाविद्धं भीमसेनेन पादपम्। विमुच्य द्रौपदीं तत्र प्राद्रवन्नगरं प्रति ॥०४-२२-२४॥
द्रवतस्तांस्तु सम्प्रेक्ष्य स वज्री दानवानिव। शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम् ॥०४-२२-२५॥
तत आश्वासयत्कृष्णां प्रविमुच्य विशां पते। उवाच च महाबाहुः पाञ्चालीं तत्र द्रौपदीम् ॥ अश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकोदरः ॥०४-२२-२६॥
एवं ते भीरु वध्यन्ते ये त्वां क्लिश्यन्त्यनागसम्। प्रैहि त्वं नगरं कृष्णे न भयं विद्यते तव ॥ अन्येनाहं गमिष्यामि विराटस्य महानसम् ॥०४-२२-२७॥
पञ्चाधिकं शतं तच्च निहतं तत्र भारत। महावनमिव छिन्नं शिश्ये विगलितद्रुमम् ॥०४-२२-२८॥
एवं ते निहता राजञ्शतं पञ्च च कीचकाः। स च सेनापतिः पूर्वमित्येतत्सूतषट्शतम् ॥०४-२२-२९॥
तद्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च सङ्गताः। विस्मयं परमं गत्वा नोचुः किञ्चन भारत ॥०४-२२-३०॥