Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.020
भीमसेन उवाच॥
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च। यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणावुभौ ॥०४-२०-१॥
सभायां स्म विराटस्य करोमि कदनं महत्। तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत् ॥ तदहं तस्य विज्ञाय स्थित एवास्मि भामिनि ॥०४-२०-२॥
यच्च राष्ट्रात्प्रच्यवनं कुरूणामवधश्च यः। सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥०४-२०-३॥
दुःशासनस्य पापस्य यन्मया न हृतं शिरः। तन्मे दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥०४-२०-४॥
इमं च समुपालम्भं त्वत्तो राजा युधिष्ठिरः। शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितम् ॥०४-२०-५॥
धनञ्जयो वा सुश्रोणि यमौ वा तनुमध्यमे। लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥०४-२०-६॥
सुकन्या नाम शार्याती भार्गवं च्यवनं वने। वल्मीकभूतं शाम्यन्तमन्वपद्यत भामिनी ॥०४-२०-७॥
नाडायनी चेन्द्रसेना रूपेण यदि ते श्रुता। पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥०४-२०-८॥
दुहिता जनकस्यापि वैदेही यदि ते श्रुता। पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥०४-२०-९॥
रक्षसा निग्रहं प्राप्य रामस्य महिषी प्रिया। क्लिश्यमानापि सुश्रोणी राममेवान्वपद्यत ॥०४-२०-१०॥
लोपामुद्रा तथा भीरु वयोरूपसमन्विता। अगस्त्यमन्वयाद्धित्वा कामान्सर्वानमानुषान् ॥०४-२०-११॥
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः। तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥०४-२०-१२॥
मादीर्घं क्षम कालं त्वं मासमध्यर्धसंमितम्। पूर्णे त्रयोदशे वर्षे राज्ञो राज्ञी भविष्यसि ॥०४-२०-१३॥
द्रौपद्युवाच॥
आर्तयैतन्मया भीम कृतं बाष्पविमोक्षणम्। अपारयन्त्या दुःखानि न राजानमुपालभे ॥०४-२०-१४॥
विमुक्तेन व्यतीतेन भीमसेन महाबल। प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥०४-२०-१५॥
ममेह भीम कैकेयी रूपाभिभवशङ्कया। नित्यमुद्विजते राजा कथं नेयादिमामिति ॥०४-२०-१६॥
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः। कीचकोऽयं सुदुष्टात्मा सदा प्रार्थयते हि माम् ॥०४-२०-१७॥
तमहं कुपिता भीम पुनः कोपं नियम्य च। अब्रुवं कामसंमूढमात्मानं रक्ष कीचक ॥०४-२०-१८॥
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया। ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥०४-२०-१९॥
एवमुक्तः स दुष्टात्मा कीचकः प्रत्युवाच ह। नाहं बिभेमि सैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥०४-२०-२०॥
शतं सहस्रमपि वा गन्धर्वाणामहं रणे। समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥०४-२०-२१॥
इत्युक्ते चाब्रुवं सूतं कामातुरमहं पुनः। न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥०४-२०-२२॥
धर्मे स्थितास्मि सततं कुलशीलसमन्विता। नेच्छामि कञ्चिद्वध्यन्तं तेन जीवसि कीचक ॥०४-२०-२३॥
एवमुक्तः स दुष्टात्मा प्रहस्य स्वनवत्तदा। न तिष्ठति स्म सन्मार्गे न च धर्मं बुभूषति ॥०४-२०-२४॥
पापात्मा पापभावश्च कामरागवशानुगः। अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ दर्शने दर्शने हन्यात्तथा जह्यां च जीवितम् ॥०४-२०-२५॥
तद्धर्मे यतमानानां महान्धर्मो नशिष्यति। समयं रक्षमाणानां भार्या वो न भविष्यति ॥०४-२०-२६॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥०४-२०-२७॥
वदतां वर्णधर्मांश्च ब्राह्मणानां हि मे श्रुतम्। क्षत्रियस्य सदा धर्मो नान्यः शत्रुनिबर्हणात् ॥०४-२०-२८॥
पश्यतो धर्मराजस्य कीचको मां पदावधीत्। तव चैव समक्षं वै भीमसेन महाबल ॥०४-२०-२९॥
त्वया ह्यहं परित्राता तस्माद्घोराज्जटासुरात्। जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह ॥०४-२०-३०॥
जहीममपि पापं त्वं योऽयं मामवमन्यते। कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥०४-२०-३१॥
तमेवं कामसंमत्तं भिन्धि कुम्भमिवाश्मनि। यो निमित्तमनर्थानां बहूनां मम भारत ॥०४-२०-३२॥
तं चेज्जीवन्तमादित्यः प्रातरभ्युदयिष्यति। विषमालोड्य पास्यामि मा कीचकवशं गमम् ॥ श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ॥०४-२०-३३॥
वैशम्पायन उवाच॥
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरः समाश्रिता। भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च ॥ कीचकं मनसागच्छत्सृक्किणी परिसंलिहन् ॥०४-२०-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.