Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.023
वैशम्पायन उवाच॥
ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन्। गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ॥०४-२३-१॥
यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः। विनिकीर्णं प्रदृश्येत तथा सूता महीतले ॥०४-२३-२॥
सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम्। सर्वं संशयितं राजन्नगरं ते भविष्यति ॥०४-२३-३॥
तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः। पुंसामिष्टश्च विषयो मैथुनाय न संशयः ॥०४-२३-४॥
यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम्। विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥०४-२३-५॥
तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः। अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ॥०४-२३-६॥
एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने। दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ॥०४-२३-७॥
सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः। सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ॥०४-२३-८॥
गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले। बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ॥०४-२३-९॥
न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम्। स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥०४-२३-१०॥
अथ मुक्ता भयात्कृष्णा सूतपुत्रान्निरस्य च। मोक्षिता भीमसेनेन जगाम नगरं प्रति ॥०४-२३-११॥
त्रासितेव मृगी बाला शार्दूलेन मनस्विनी। गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा ॥०४-२३-१२॥
तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश। गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ॥०४-२३-१३॥
ततो महानसद्वारि भीमसेनमवस्थितम्। ददर्श राजन्पाञ्चाली यथा मत्तं महाद्विपम् ॥०४-२३-१४॥
तं विस्मयन्ती शनकैः सञ्ज्ञाभिरिदमब्रवीत्। गन्धर्वराजाय नमो येनास्मि परिमोचिता ॥०४-२३-१५॥
भीमसेन उवाच॥
ये यस्या विचरन्तीह पुरुषा वशवर्तिनः। तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ॥०४-२३-१६॥
वैशम्पायन उवाच॥
ततः सा नर्तनागारे धनञ्जयमपश्यत। राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ॥०४-२३-१७॥
ततस्ता नर्तनागाराद्विनिष्क्रम्य सहार्जुनाः। कन्या ददृशुरायान्तीं कृष्णां क्लिष्टामनागसम् ॥०४-२३-१८॥
कन्या ऊचुः॥
दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता। दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥०४-२३-१९॥
बृहन्नडोवाच॥
कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः। इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ॥०४-२३-२०॥
सैरन्ध्र्युवाच॥
बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै। या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ॥०४-२३-२१॥
न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते। तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ॥०४-२३-२२॥
बृहन्नडोवाच॥
बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम्। तिर्यग्योनिगता बाले न चैनामवबुध्यसे ॥०४-२३-२३॥
वैशम्पायन उवाच॥
ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत्। प्रविवेश सुदेष्णायाः समीपमपलायिनी ॥०४-२३-२४॥
तामब्रवीद्राजपुत्री विराटवचनादिदम्। सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ॥०४-२३-२५॥
राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात्। त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ॥०४-२३-२६॥
सैरन्ध्र्युवाच॥
त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि। कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ॥०४-२३-२७॥
ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम्। ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ॥०४-२३-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.