04.024
गोग्रहणपर्व
वैशम्पायन उवाच॥
कीचकस्य तु घातेन सानुजस्य विशां पते। अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥०४-२४-१॥
तस्मिन्पुरे जनपदे सञ्जल्पोऽभूच्च सर्वशः। शौर्याद्धि वल्लभो राज्ञो महासत्त्वश्च कीचकः ॥०४-२४-२॥
आसीत्प्रहर्ता च नृणां दारामर्शी च दुर्मतिः। स हतः खलु पापात्मा गन्धर्वैर्दुष्टपूरुषः ॥०४-२४-३॥
इत्यजल्पन्महाराज परानीकविशातनम्। देशे देशे मनुष्याश्च कीचकं दुष्प्रधर्षणम् ॥०४-२४-४॥
अथ वै धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः। मृगयित्वा बहून्ग्रामान्राष्ट्राणि नगराणि च ॥०४-२४-५॥
संविधाय यथादिष्टं यथादेशप्रदर्शनम्। कृतचिन्ता न्यवर्तन्त ते च नागपुरं प्रति ॥०४-२४-६॥
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम्। द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ॥०४-२४-७॥
सङ्गतं भ्रातृभिश्चापि त्रिगर्तैश्च महारथैः। दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥०४-२४-८॥
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा। पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥०४-२४-९॥
निर्जने मृगसङ्कीर्णे नानाद्रुमलतावृते। लताप्रतानबहुले नानागुल्मसमावृते ॥०४-२४-१०॥
न च विद्मो गता येन पार्थाः स्युर्दृढविक्रमाः। मार्गमाणाः पदन्यासं तेषु तेषु तथा तथा ॥०४-२४-११॥
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च। जनाकीर्णेषु देशेषु खर्वटेषु पुरेषु च ॥०४-२४-१२॥
नरेन्द्र बहुशोऽन्विष्टा नैव विद्मश्च पाण्डवान्। अत्यन्तभावं नष्टास्ते भद्रं तुभ्यं नरर्षभ ॥०४-२४-१३॥
वर्त्मान्यन्विष्यमाणास्तु रथानां रथसत्तम। कञ्चित्कालं मनुष्येन्द्र सूतानामनुगा वयम् ॥०४-२४-१४॥
मृगयित्वा यथान्यायं विदितार्थाः स्म तत्त्वतः। प्राप्ता द्वारवतीं सूता ऋते पार्थैः परन्तप ॥०४-२४-१५॥
न तत्र पाण्डवा राजन्नापि कृष्णा पतिव्रता। सर्वथा विप्रनष्टास्ते नमस्ते भरतर्षभ ॥०४-२४-१६॥
न हि विद्मो गतिं तेषां वासं वापि महात्मनाम्। पाण्डवानां प्रवृत्तिं वा विद्मः कर्मापि वा कृतम् ॥ स नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते ॥०४-२४-१७॥
अन्वेषणे पाण्डवानां भूयः किं करवामहे। इमां च नः प्रियामीक्ष वाचं भद्रवतीं शुभाम् ॥०४-२४-१८॥
येन त्रिगर्ता निकृता बलेन महता नृप। सूतेन राज्ञो मत्स्यस्य कीचकेन महात्मना ॥०४-२४-१९॥
स हतः पतितः शेते गन्धर्वैर्निशि भारत। अदृश्यमानैर्दुष्टात्मा सह भ्रातृभिरच्युत ॥०४-२४-२०॥
प्रियमेतदुपश्रुत्य शत्रूणां तु पराभवम्। कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥०४-२४-२१॥