Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.025
वैशम्पायन उवाच॥
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा। चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः ॥०४-२५-१॥
सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः। तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः ॥०४-२५-२॥
अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः। तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ॥०४-२५-३॥
अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः। निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ॥०४-२५-४॥
क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः। दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ॥०४-२५-५॥
अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः। प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ॥०४-२५-६॥
तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम्। राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ॥०४-२५-७॥
अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत। अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः ॥०४-२५-८॥
चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान्। तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च ॥०४-२५-९॥
परिचारेषु तीर्थेषु विविधेष्वाकरेषु च। विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया ॥०४-२५-१०॥
विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः। अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः ॥०४-२५-११॥
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च। आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ॥०४-२५-१२॥
अथाग्रजानन्तरजः पापभावानुरागिणम्। ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ॥०४-२५-१३॥
एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा। यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः ॥ एते चान्ये च भूयांसो देशाद्देशं यथाविधि ॥०४-२५-१४॥
न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते। अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः ॥०४-२५-१५॥
व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः। अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ॥०४-२५-१६॥
तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन। कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप ॥०४-२५-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.