Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.026
वैशम्पायन उवाच॥
अथाब्रवीन्महावीर्यो द्रोणस्तत्त्वार्थदर्शिवान्। न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ॥०४-२६-१॥
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः। धर्मज्ञाश्च कृतज्ञाश्च धर्मराजमनुव्रताः ॥०४-२६-२॥
नीतिधर्मार्थतत्त्वज्ञं पितृवच्च समाहितम्। धर्मे स्थितं सत्यधृतिं ज्येष्ठं ज्येष्ठापचायिनम् ॥०४-२६-३॥
अनुव्रता महात्मानं भ्रातरं भ्रातरो नृप। अजातशत्रुं ह्रीमन्तं तं च भ्रातॄननुव्रतम् ॥०४-२६-४॥
तेषां तथा विधेयानां निभृतानां महात्मनाम्। किमर्थं नीतिमान्पार्थः श्रेयो नैषां करिष्यति ॥०४-२६-५॥
तस्माद्यत्नात्प्रतीक्षन्ते कालस्योदयमागतम्। न हि ते नाशमृच्छेयुरिति पश्याम्यहं धिया ॥०४-२६-६॥
साम्प्रतं चैव यत्कार्यं तच्च क्षिप्रमकालिकम्। क्रियतां साधु सञ्चिन्त्य वासश्चैषां प्रचिन्त्यताम् ॥०४-२६-७॥
यथावत्पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम्। दुर्ज्ञेयाः खलु शूरास्ते अपापास्तपसा वृताः ॥०४-२६-८॥
शुद्धात्मा गुणवान्पार्थः सत्यवान्नीतिमाञ्शुचिः। तेजोराशिरसङ्ख्येयो गृह्णीयादपि चक्षुषी ॥०४-२६-९॥
विज्ञाय क्रियतां तस्माद्भूयश्च मृगयामहे। ब्राह्मणैश्चारकैः सिद्धैर्ये चान्ये तद्विदो जनाः ॥०४-२६-१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.