Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.027
वैशम्पायन उवाच॥
ततः शान्तनवो भीष्मो भरतानां पितामहः। श्रुतवान्देशकालज्ञस्तत्त्वज्ञः सर्वधर्मवित् ॥०४-२७-१॥
आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत्। हितार्थं स उवाचेमां भारतीं भारतान्प्रति ॥०४-२७-२॥
युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम्। असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ॥ भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ॥०४-२७-३॥
यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित्। सर्वलक्षणसम्पन्ना नाशं नार्हन्ति पाण्डवाः ॥०४-२७-४॥
श्रुतवृत्तोपसम्पन्नाः साधुव्रतसमन्विताः। वृद्धानुशासने मग्नाः सत्यव्रतपरायणाः ॥०४-२७-५॥
समयं समयज्ञास्ते पालयन्तः शुचिव्रताः। नावसीदितुमर्हन्ति उद्वहन्तः सतां धुरम् ॥०४-२७-६॥
धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः। न नाशमधिगच्छेयुरिति मे धीयते मतिः ॥०४-२७-७॥
तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत। न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ॥०४-२७-८॥
यत्तु शक्यमिहास्माभिस्तान्वै सञ्चिन्त्य पाण्डवान्। बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् ॥०४-२७-९॥
सा त्वियं साधु वक्तव्या न त्वनीतिः कथञ्चन। वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ॥०४-२७-१०॥
अवश्यं त्विह धीरेण सतां मध्ये विवक्षता। यथामति विवक्तव्यं सर्वशो धर्मलिप्सया ॥०४-२७-११॥
तत्र नाहं तथा मन्ये यथायमितरो जनः। पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ॥०४-२७-१२॥
नासूयको न चापीर्षुर्नातिवादी न मत्सरी। भविष्यति जनस्तत्र स्वं स्वं धर्ममनुव्रतः ॥०४-२७-१३॥
ब्रह्मघोषाश्च भूयांसः पूर्णाहुत्यस्तथैव च। क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ॥०४-२७-१४॥
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः। सम्पन्नसस्या च मही निरीतीका भविष्यति ॥०४-२७-१५॥
रसवन्ति च धान्यानि गुणवन्ति फलानि च। गन्धवन्ति च माल्यानि शुभशब्दा च भारती ॥०४-२७-१६॥
वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम्। भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ॥०४-२७-१७॥
गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः। पयांसि दधिसर्पींषि रसवन्ति हितानि च ॥०४-२७-१८॥
गुणवन्ति च पानानि भोज्यानि रसवन्ति च। तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ॥०४-२७-१९॥
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः। दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥०४-२७-२०॥
स्वैः स्वैर्गुणैः सुसंयुक्तास्तस्मिन्वर्षे त्रयोदशे। देशे तस्मिन्भविष्यन्ति तात पाण्डवसंयुते ॥०४-२७-२१॥
सम्प्रीतिमाञ्जनस्तत्र सन्तुष्टः शुचिरव्ययः। देवतातिथिपूजासु सर्वभूतानुरागवान् ॥०४-२७-२२॥
इष्टदानो महोत्साहः शश्वद्धर्मपरायणः। अशुभद्विट्शुभप्रेप्सुर्नित्ययज्ञः शुभव्रतः ॥ भविष्यति जनस्तत्र यत्र राजा युधिष्ठिरः ॥०४-२७-२३॥
त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः। शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ॥ भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ॥०४-२७-२४॥
धर्मात्मा स तदादृश्यः सोऽपि तात द्विजातिभिः। किं पुनः प्राकृतैः पार्थः शक्यो विज्ञातुमन्ततः ॥०४-२७-२५॥
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा। ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥०४-२७-२६॥
तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः। गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ॥०४-२७-२७॥
एवमेतत्तु सञ्चिन्त्य यत्कृतं मन्यसे हितम्। तत्क्षिप्रं कुरु कौरव्य यद्येवं श्रद्दधासि मे ॥०४-२७-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.