Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.028
वैशम्पायन उवाच॥
ततः शारद्वतो वाक्यमित्युवाच कृपस्तदा। युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भाषितम् ॥०४-२८-१॥
धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत्। तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु ॥०४-२८-२॥
तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम्। नीतिर्विधीयतां चापि साम्प्रतं या हिता भवेत् ॥०४-२८-३॥
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता। किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे ॥०४-२८-४॥
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु। गूढभावेषु छन्नेषु काले चोदयमागते ॥०४-२८-५॥
स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः। उदये पाण्डवानां च प्राप्ते काले न संशयः ॥०४-२८-६॥
निवृत्तसमयाः पार्था महात्मानो महाबलाः। महोत्साहा भविष्यन्ति पाण्डवा ह्यतितेजसः ॥०४-२८-७॥
तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम्। यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे ॥०४-२८-८॥
तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः। नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥०४-२८-९॥
उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत। प्रहृष्टमप्रहृष्टं च संदधाम तथा परैः ॥०४-२८-१०॥
साम्ना भेदेन दानेन दण्डेन बलिकर्मणा। न्यायेनानम्य च परान्बलाच्चानम्य दुर्बलान् ॥०४-२८-११॥
सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम्। सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ॥०४-२८-१२॥
योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः। अन्यैस्त्वं पाण्डवैर्वापि हीनस्वबलवाहनैः ॥०४-२८-१३॥
एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः। यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥०४-२८-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.