Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.029
वैशम्पायन उवाच॥
अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः। प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥०४-२९-१॥
असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह। सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥०४-२९-२॥
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो। स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥०४-२९-३॥
असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा। प्रणेता कीचकश्चास्य बलवानभवत्पुरा ॥०४-२९-४॥
क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः। निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥०४-२९-५॥
तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः। भविष्यति निरुत्साहो विराट इति मे मतिः ॥०४-२९-६॥
तत्र यात्रा मम मता यदि ते रोचतेऽनघ। कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥०४-२९-७॥
एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम्। राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥०४-२९-८॥
आददामोऽस्य रत्नानि विविधानि वसूनि च। ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥०४-२९-९॥
अथ वा गोसहस्राणि बहूनि च शुभानि च। विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥०४-२९-१०॥
कौरवैः सह सङ्गम्य त्रिगर्तैश्च विशां पते। गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥०४-२९-११॥
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्। हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥०४-२९-१२॥
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्। भवतो बलवृद्धिश्च भविष्यति न संशयः ॥०४-२९-१३॥
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत्। सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥०४-२९-१४॥
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम्। विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥०४-२९-१५॥
प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः। आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥०४-२९-१६॥
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्। संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ॥०४-२९-१७॥
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः। अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥०४-२९-१८॥
यामो राजन्ननुद्विग्ना विराटविषयं वयम्। आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥०४-२९-१९॥
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत्। वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥०४-२९-२०॥
शासने नित्यसंयुक्तं दुःशासनमनन्तरम्। सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥०४-२९-२१॥
यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः। सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥०४-२९-२२॥
त्रिगर्तैः सहितो राजा समग्रबलवाहनः। प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥०४-२९-२३॥
जघन्यतो वयं तत्र यास्यामो दिवसान्तरम्। विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥०४-२९-२४॥
ते यात्वा सहसा तत्र विराटनगरं प्रति। क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥०४-२९-२५॥
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च। वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥०४-२९-२६॥
स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः। आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् ॥०४-२९-२७॥
अपरं दिवसं सर्वे राजन्सम्भूय कौरवाः। अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ॥०४-२९-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.