04.030
वैशम्पायन उवाच॥
ततस्तेषां महाराज तत्रैवामिततेजसाम्। छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥०४-३०-१॥
व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे। कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥०४-३०-२॥
ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत। सुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥०४-३०-३॥
ततो जवेन महता गोपाः पुरमथाव्रजत्। अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ॥०४-३०-४॥
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः। सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ॥०४-३०-५॥
तं सभायां महाराजमासीनं राष्ट्रवर्धनम्। सोऽब्रवीदुपसङ्गम्य विराटं प्रणतस्तदा ॥०४-३०-६॥
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्। गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ॥ तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ॥०४-३०-७॥
तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत्। रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥०४-३०-८॥
राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे। भानुमन्ति विचित्राणि सूपसेव्यानि भागशः ॥०४-३०-९॥
सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम्। विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥०४-३०-१०॥
सर्वपारसवं वर्म कल्याणपटलं दृढम्। शतानीकादवरजो मदिराश्वोऽभ्यहारयत् ॥०४-३०-११॥
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्। अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥०४-३०-१२॥
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च। सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ॥०४-३०-१३॥
दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत्। विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥०४-३०-१४॥
शतशश्च तनुत्राणि यथास्वानि महारथाः। योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः ॥०४-३०-१५॥
सूपस्करेषु शुभ्रेषु महत्सु च महारथाः। पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् ॥०४-३०-१६॥
सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः। महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ॥०४-३०-१७॥
अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान्। यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥०४-३०-१८॥
अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्। कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ॥ युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥०४-३०-१९॥
एतेषामपि दीयन्तां रथा ध्वजपताकिनः। कवचानि विचित्राणि दृढानि च मृदूनि च ॥ प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ॥०४-३०-२०॥
वीराङ्गरूपाः पुरुषा नागराजकरोपमाः। नेमे जातु न युध्येरन्निति मे धीयते मतिः ॥०४-३०-२१॥
एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः। शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ॥ सहदेवाय राज्ञे च भीमाय नकुलाय च ॥०४-३०-२२॥
तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः। निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ॥०४-३०-२३॥
कवचानि विचित्राणि दृढानि च मृदूनि च। विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ॥ तान्यामुच्य शरीरेषु दंशितास्ते परन्तपाः ॥०४-३०-२४॥
तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः। विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः ॥ चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥०४-३०-२५॥
भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः। क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः ॥०४-३०-२६॥
स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः। राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥०४-३०-२७॥
विशारदानां वश्यानां हृष्टानां चानुयायिनाम्। अष्टौ रथसहस्राणि दश नागशतानि च ॥ षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः ॥०४-३०-२८॥
तदनीकं विराटस्य शुशुभे भरतर्षभ। सम्प्रयातं महाराज निनीषन्तं गवां पदम् ॥०४-३०-२९॥
तद्बलाग्र्यं विराटस्य सम्प्रस्थितमशोभत। दृढायुधजनाकीर्णं गजाश्वरथसङ्कुलम् ॥०४-३०-३०॥