04.032
वैशम्पायन उवाच॥
तमसाभिप्लुते लोके रजसा चैव भारत। व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः ॥०४-३२-१॥
ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः। कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि ॥०४-३२-२॥
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत। घोररूपं ततस्ते स्म नावेक्षन्त परस्परम् ॥०४-३२-३॥
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा। अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ॥०४-३२-४॥
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ। गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान् ॥०४-३२-५॥
तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति। गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः ॥०४-३२-६॥
बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा। प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत् ॥०४-३२-७॥
तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी। विरथं मत्स्यराजानं जीवग्राहमगृह्णताम् ॥०४-३२-८॥
तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव। स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः ॥०४-३२-९॥
तस्मिन्गृहीते विरथे विराटे बलवत्तरे। प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम् ॥०४-३२-१०॥
तेषु सन्त्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः। अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम् ॥०४-३२-११॥
मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा। तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम् ॥०४-३२-१२॥
उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः। भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः ॥०४-३२-१३॥
भीमसेन उवाच॥
अहमेनं परित्रास्ये शासनात्तव पार्थिव। पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः ॥०४-३२-१४॥
स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह। एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम् ॥०४-३२-१५॥
सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः। एनमेव समारुज्य द्रावयिष्यामि शात्रवान् ॥०४-३२-१६॥
वैशम्पायन उवाच॥
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्। अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ॥०४-३२-१७॥
मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः। मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम् ॥ जनाः समवबुध्येरन्भीमोऽयमिति भारत ॥०४-३२-१८॥
अन्यदेवायुधं किञ्चित्प्रतिपद्यस्व मानुषम्। चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम् ॥०४-३२-१९॥
यदेव मानुषं भीम भवेदन्यैरलक्षितम्। तदेवायुधमादाय मोक्षयाशु महीपतिम् ॥०४-३२-२०॥
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ। व्यूहतः समरे तात मत्स्यराजं परीप्सतः ॥०४-३२-२१॥
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्। दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ॥०४-३२-२२॥
तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः। वैराटी परमक्रुद्धा युयुधे परमाद्भुतम् ॥०४-३२-२३॥
सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः। भीमः सप्तशतान्योधान्परलोकमदर्शयत् ॥ नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ॥०४-३२-२४॥
शतानि त्रीणि शूराणां सहदेवः प्रतापवान्। युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ॥ भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ ॥०४-३२-२५॥
ततो युधिष्ठिरो राजा त्वरमाणो महारथः। अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम् ॥०४-३२-२६॥
सुशर्मापि सुसङ्क्रुद्धस्त्वरमाणो युधिष्ठिरम्। अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान् ॥०४-३२-२७॥
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः। समासाद्य सुशर्माणमश्वानस्य व्यपोथयत् ॥०४-३२-२८॥
पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः। अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत् ॥०४-३२-२९॥
चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः। स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा ॥०४-३२-३०॥
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः। गदामस्य परामृश्य तमेवाजघ्निवान्बली ॥ स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ॥०४-३२-३१॥
भीमस्तु भीमसङ्काशो रथात्प्रस्कन्द्य कुण्डली। त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा ॥०४-३२-३२॥
तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे। अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम् ॥०४-३२-३३॥
निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः। अवजित्य सुशर्माणं धनं चादाय सर्वशः ॥०४-३२-३४॥
स्वबाहुबलसम्पन्ना ह्रीनिषेधा यतव्रताः। सङ्ग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ॥०४-३२-३५॥
ततो विराटः कौन्तेयानतिमानुषविक्रमान्। अर्चयामास वित्तेन मानेन च महारथान् ॥०४-३२-३६॥
विराट उवाच॥
यथैव मम रत्नानि युष्माकं तानि वै तथा। कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम् ॥०४-३२-३७॥
ददान्यलङ्कृताः कन्या वसूनि विविधानि च। मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ॥०४-३२-३८॥
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह। तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ॥०४-३२-३९॥
वैशम्पायन उवाच॥
तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक्। ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः ॥०४-३२-४०॥
प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते। एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः ॥०४-३२-४१॥
अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम्। पुनरेव महाबाहुर्विराटो राजसत्तमः ॥ एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान् ॥०४-३२-४२॥
मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण। तत्तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान् ॥०४-३२-४३॥
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा। वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते ॥०४-३२-४४॥
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च। यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ॥०४-३२-४५॥
ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत। प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे ॥०४-३२-४६॥
आनृशंस्यपरो नित्यं सुसुखः सततं भव। गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव ॥ सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥०४-३२-४७॥
ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत्। आचक्षध्वं पुरं गत्वा सङ्ग्रामे विजयं मम ॥०४-३२-४८॥
कुमाराः समलङ्कृत्य पर्यागच्छन्तु मे पुरात्। वादित्राणि च सर्वाणि गणिकाश्च स्वलङ्कृताः ॥०४-३२-४९॥
ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति। विराटस्य पुराभ्याशे दूता जयमघोषयन् ॥०४-३२-५०॥