Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.031
वैशम्पायन उवाच॥
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः। त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ॥०४-३१-१॥
ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः। अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ॥०४-३१-२॥
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः। ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥०४-३१-३॥
तेषां समागमो घोरस्तुमुलो लोमहर्षणः। देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ॥०४-३१-४॥
उदतिष्ठद्रजो भौमं न प्रज्ञायत किञ्चन। पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ॥०४-३१-५॥
इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत। खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ॥०४-३१-६॥
रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम्। पततां लोकवीराणां सव्यदक्षिणमस्यताम् ॥०४-३१-७॥
रथा रथैः समाजग्मुः पादातैश्च पदातयः। सादिभिः सादिनश्चैव गजैश्चापि महागजाः ॥०४-३१-८॥
असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि। संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ॥०४-३१-९॥
निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः। न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ॥०४-३१-१०॥
कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलङ्कृतम्। अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ॥०४-३१-११॥
अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः। शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ॥०४-३१-१२॥
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः। आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥०४-३१-१३॥
उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता। कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ॥०४-३१-१४॥
शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम्। प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ॥ आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ॥०४-३१-१५॥
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्। जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ॥०४-३१-१६॥
विराटस्तत्र सङ्ग्रामे हत्वा पञ्चशतान्रथान्। हयानां च शतान्यत्र हत्वा पञ्च महारथान् ॥०४-३१-१७॥
चरन्स विविधान्मार्गान्रथेषु रथयूथपः। त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥०४-३१-१८॥
तौ व्यावहरतां तत्र महात्मानौ महाबलौ। अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ॥०४-३१-१९॥
ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः। शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ॥०४-३१-२०॥
अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ। कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ॥०४-३१-२१॥
ततो राजा सुशर्माणं विव्याध दशभिः शरैः। पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ॥०४-३१-२२॥
तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः। पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ॥०४-३१-२३॥
ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः। नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ॥०४-३१-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.