Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.033
वैशम्पायन उवाच॥
याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति। दुर्योधनः सहामात्यो विराटमुपयादथ ॥०४-३३-१॥
भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्। द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ॥०४-३३-२॥
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्। दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ॥०४-३३-३॥
एते मत्स्यानुपागम्य विराटस्य महीपतेः। घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥०४-३३-४॥
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते। महता रथवंशेन परिवार्य समन्ततः ॥०४-३३-५॥
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः। आरावः सुमहानासीत्सम्प्रहारे भयङ्करे ॥०४-३३-६॥
गवाध्यक्षस्तु सन्त्रस्तो रथमास्थाय सत्वरः। जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥०४-३३-७॥
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः। अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥०४-३३-८॥
दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम्। तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥०४-३३-९॥
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते। तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥०४-३३-१०॥
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम्। त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥०४-३३-११॥
त्वया परिषदो मध्ये श्लाघते स नराधिपः। पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥०४-३३-१२॥
इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः। तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥०४-३३-१३॥
आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर। निर्दहैषामनीकानि भीमेन शरतेजसा ॥०४-३३-१४॥
धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः। द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥०४-३३-१५॥
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम्। शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥०४-३३-१६॥
श्वेता रजतसङ्काशा रथे युज्यन्तु ते हयाः। ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥०४-३३-१७॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया। छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥०४-३३-१८॥
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान्। यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥०४-३३-१९॥
त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः। गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥०४-३३-२०॥
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयङ्करम्। अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥०४-३३-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.