04.034
उत्तर उवाच॥
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्। यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ॥०४-३४-१॥
तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः। पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः ॥०४-३४-२॥
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः। यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः ॥०४-३४-३॥
स लभेयं यदि त्वन्यं हययानविदं नरम्। त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम् ॥०४-३४-४॥
विगाह्य तत्परानीकं गजवाजिरथाकुलम्। शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून् ॥०४-३४-५॥
दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम्। द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ॥०४-३४-६॥
वित्रासयित्वा सङ्ग्रामे दानवानिव वज्रभृत्। अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ॥०४-३४-७॥
शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम्। किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम् ॥०४-३४-८॥
पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः। किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते ॥०४-३४-९॥
वैशम्पायन उवाच॥
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः। नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ॥०४-३४-१०॥
अथैनमुपसङ्गम्य स्त्रीमध्यात्सा तपस्विनी। व्रीडमानेव शनकैरिदं वचनमब्रवीत् ॥०४-३४-११॥
योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः। बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः ॥०४-३४-१२॥
धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः। दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति ॥०४-३४-१३॥
यदा तत्पावको दावमदहत्खाण्डवं महत्। अर्जुनस्य तदानेन सङ्गृहीता हयोत्तमाः ॥०४-३४-१४॥
तेन सारथिना पार्थः सर्वभूतानि सर्वशः। अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः ॥०४-३४-१५॥
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी। अस्याः स वचनं वीर करिष्यति न संशयः ॥०४-३४-१६॥
यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम्। जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ॥०४-३४-१७॥
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत। गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम् ॥०४-३४-१८॥
सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम्। यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः ॥०४-३४-१९॥