Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.035
वैशम्पायन उवाच॥
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा। प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत ॥०४-३५-१॥
तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम्। प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ॥०४-३५-२॥
गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे। तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ॥०४-३५-३॥
नचिरं च हतस्तस्य सङ्ग्रामे रथसारथिः। तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ॥०४-३५-४॥
तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे। आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ॥०४-३५-५॥
सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे। पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ॥०४-३५-६॥
अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि। प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् ॥०४-३५-७॥
एवमुक्तस्तु सुश्रोण्या तया सख्या परन्तपः। जगाम राजपुत्रस्य सकाशममितौजसः ॥०४-३५-८॥
तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्। अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ॥०४-३५-९॥
दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत। त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥०४-३५-१०॥
पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः। सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ॥०४-३५-११॥
संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे। कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ॥०४-३५-१२॥
अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा। त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ॥०४-३५-१३॥
एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा। का शक्तिर्मम सारथ्यं कर्तुं सङ्ग्राममूर्धनि ॥०४-३५-१४॥
गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम्। तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि ॥०४-३५-१५॥
उत्तर उवाच॥
बृहन्नडे गायनो वा नर्तनो वा पुनर्भव। क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ॥०४-३५-१६॥
वैशम्पायन उवाच॥
स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु। उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ॥०४-३५-१७॥
ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत। कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ॥०४-३५-१८॥
स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः। कवचेन महार्हेण समनह्यद्बृहन्नडाम् ॥०४-३५-१९॥
स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम्। ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ॥०४-३५-२०॥
धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून्। आदाय प्रययौ वीरः स बृहन्नडसारथिः ॥०४-३५-२१॥
अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा। बृहन्नडे आनयेथा वासांसि रुचिराणि नः ॥०४-३५-२२॥
पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च। विजित्य सङ्ग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥०४-३५-२३॥
अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः। प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ॥०४-३५-२४॥
यद्युत्तरोऽयं सङ्ग्रामे विजेष्यति महारथान्। अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ॥०४-३५-२५॥
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान्। कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ॥०४-३५-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.