04.036
वैशम्पायन उवाच॥
स राजधान्या निर्याय वैराटिः पृथिवीञ्जयः। प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥०४-३६-१॥
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै। गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् ॥०४-३६-२॥
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः। ते हया नरसिंहेन चोदिता वातरंहसः ॥ आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥०४-३६-३॥
नातिदूरमथो यात्वा मत्स्यपुत्रधनञ्जयौ। अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ॥ श्मशानमभितो गत्वा आससाद कुरूनथ ॥०४-३६-४॥
तदनीकं महत्तेषां विबभौ सागरस्वनम्। सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥०४-३६-५॥
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता। दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ॥०४-३६-६॥
तदनीकं महद्दृष्ट्वा गजाश्वरथसङ्कुलम्। कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ॥०४-३६-७॥
द्रोणेन च सपुत्रेण महेष्वासेन धीमता। हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ॥०४-३६-८॥
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे। बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ॥ प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ॥०४-३६-९॥
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्। रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ॥०४-३६-१०॥
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः। अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥०४-३६-११॥
दुर्योधनस्तथा वीरो राजा च रथिनां वरः। द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ॥०४-३६-१२॥
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः। हृषितानि च रोमाणि कश्मलं चागतं मम ॥०४-३६-१३॥
वैशम्पायन उवाच॥
अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः। परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥०४-३६-१४॥
त्रिगर्तान्मे पिता यातः शून्ये सम्प्रणिधाय माम्। सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥०४-३६-१५॥
सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः। प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे ॥०४-३६-१६॥
अर्जुन उवाच॥
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः। न च तावत्कृतं किञ्चित्परैः कर्म रणाजिरे ॥०४-३६-१७॥
स्वयमेव च मामात्थ वह मां कौरवान्प्रति। सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥०४-३६-१८॥
मध्यमामिषगृध्राणां कुरूणामाततायिनाम्। नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् ॥०४-३६-१९॥
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च। कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे ॥०४-३६-२०॥
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि। प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च सङ्गताः ॥०४-३६-२१॥
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि। न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥०४-३६-२२॥
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च। कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव ॥०४-३६-२३॥
उत्तर उवाच॥
कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम्। प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे ॥०४-३६-२४॥
वैशम्पायन उवाच॥
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली। त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ॥०४-३६-२५॥
बृहन्नडोवाच॥
नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम्। श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् ॥०४-३६-२६॥
वैशम्पायन उवाच॥
एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात्। तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ॥ दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ॥०४-३६-२७॥
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा। सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ॥०४-३६-२८॥
तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन्। क एष वेषप्रच्छन्नो भस्मनेव हुताशनः ॥०४-३६-२९॥
किञ्चिदस्य यथा पुंसः किञ्चिदस्य यथा स्त्रियः। सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ॥०४-३६-३०॥
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ। तद्वदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ॥०४-३६-३१॥
अमरेष्विव देवेन्द्रो मानुषेषु धनञ्जयः। एकः कोऽस्मानुपायायादन्यो लोके धनञ्जयात् ॥०४-३६-३२॥
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे। स एष किल निर्यातो बालभावान्न पौरुषात् ॥०४-३६-३३॥
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम्। उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ॥०४-३६-३४॥
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति। तं नूनमेष धावन्तं जिघृक्षति धनञ्जयः ॥०४-३६-३५॥
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्। न च व्यवसितुं किञ्चिदुत्तरं शक्नुवन्ति ते ॥ छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ॥०४-३६-३६॥
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः। गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ॥०४-३६-३७॥
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत्। बहुलं कृपणं चैव विराटस्य सुतस्तदा ॥०४-३६-३८॥
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते। मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ॥०४-३६-३९॥
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः। मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे ॥०४-३६-४०॥
वैशम्पायन उवाच॥
एवमादीनि वाक्यानि विलपन्तमचेतसम्। प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥०४-३६-४१॥
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम्। यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ॥ एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥०४-३६-४२॥
प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः। अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ॥०४-३६-४३॥
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप। अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥०४-३६-४४॥
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम्। यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ॥०४-३६-४५॥
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः। समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ॥०४-३६-४६॥
तत एनं विचेष्टन्तमकामं भयपीडितम्। रथमारोपयामास पार्थः प्रहरतां वरः ॥०४-३६-४७॥