04.037
वैशम्पायन उवाच॥
तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम्। शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्॥०४-३७-१॥
भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः। वित्रस्तमनसः सर्वे धनञ्जयकृताद्भयात् ॥०४-३७-२॥
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्। गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ॥०४-३७-३॥
चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः। भस्मवर्णप्रकाशेन तमसा संवृतं नभः ॥०४-३७-४॥
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः। निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ॥०४-३७-५॥
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः। हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ॥०४-३७-६॥
यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि। यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् ॥०४-३७-७॥
रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि। वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ॥०४-३७-८॥
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः। आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः ॥०४-३७-९॥
स एष पार्थो विक्रान्तः सव्यसाची परन्तपः। नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः ॥०४-३७-१०॥
क्लेशितश्च वने शूरो वासवेन च शिक्षितः। अमर्षवशमापन्नो योत्स्यते नात्र संशयः ॥०४-३७-११॥
नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः। महादेवोऽपि पार्थेन श्रूयते युधि तोषितः ॥०४-३७-१२॥
कर्ण उवाच॥
सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे। न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा ॥०४-३७-१३॥
दुर्योधन उवाच॥
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम। ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् ॥०४-३७-१४॥
अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः। शरैरेनं सुनिशितैः पातयिष्यामि भूतले ॥०४-३७-१५॥
वैशम्पायन उवाच॥
तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परन्तपे। भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन् ॥०४-३७-१६॥