Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.039
उत्तर उवाच॥
सुवर्णविकृतानीमान्यायुधानि महात्मनाम्। रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥०४-३९-१॥
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः। नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥०४-३९-२॥
सर्व एव महात्मानः सर्वामित्रविनाशनाः। राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ॥०४-३९-३॥
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता। जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ॥०४-३९-४॥
अर्जुन उवाच॥
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः। बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ॥०४-३९-५॥
अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले। सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥०४-३९-६॥
उत्तर उवाच॥
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे। प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥०४-३९-७॥
अर्जुन उवाच॥
हन्त तेऽहं समाचक्षे दश नामानि यानि मे। अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ॥ बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ॥०४-३९-८॥
उत्तर उवाच॥
केनासि विजयो नाम केनासि श्वेतवाहनः। किरीटी नाम केनासि सव्यसाची कथं भवान् ॥०४-३९-९॥
अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च। धनञ्जयश्च केनासि प्रब्रूहि मम तत्त्वतः ॥ श्रुता मे तस्य वीरस्य केवला नामहेतवः ॥०४-३९-१०॥
अर्जुन उवाच॥
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम्। मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जयम् ॥०४-३९-११॥
अभिप्रयामि सङ्ग्रामे यदहं युद्धदुर्मदान्। नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥०४-३९-१२॥
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः। सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥०४-३९-१३॥
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा। जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥०४-३९-१४॥
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः। किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ॥०४-३९-१५॥
न कुर्यां कर्म बीभत्सं युध्यमानः कथञ्चन। तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥०४-३९-१६॥
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे। तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥०४-३९-१७॥
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः। करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ॥०४-३९-१८॥
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः। तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ॥०४-३९-१९॥
कृष्ण इत्येव दशमं नाम चक्रे पिता मम। कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ॥०४-३९-२०॥
वैशम्पायन उवाच॥
ततः पार्थं स वैराटिरभ्यवादयदन्तिकात्। अहं भूमिञ्जयो नाम नाम्नाहमपि चोत्तरः ॥०४-३९-२१॥
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय। लोहिताक्ष महाबाहो नागराजकरोपम ॥ यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ॥०४-३९-२२॥
यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम्। अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥०४-३९-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.