Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.040
उत्तर उवाच॥
आस्थाय विपुलं वीर रथं सारथिना मया। कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥०४-४०-१॥
अर्जुन उवाच॥
प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव। सर्वान्नुदामि ते शत्रून्रणे रणविशारद ॥०४-४०-२॥
स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह। युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत् ॥०४-४०-३॥
एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे। एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम् ॥ अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥०४-४०-४॥
सङ्कल्पपक्षविक्षेपं बाहुप्राकारतोरणम्। त्रिदण्डतूणसम्बाधमनेकध्वजसङ्कुलम् ॥०४-४०-५॥
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि। नगरं ते मया गुप्तं रथोपस्थं भविष्यति ॥०४-४०-६॥
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्वना। अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम् ॥०४-४०-७॥
उत्तर उवाच॥
बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि। केशवेनापि सङ्ग्रामे साक्षादिन्द्रेण वा समम् ॥०४-४०-८॥
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्। निश्चयं चापि दुर्मेधा न गच्छामि कथञ्चन ॥०४-४०-९॥
एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च। केन कर्मविपाकेन क्लीबत्वमिदमागतम् ॥०४-४०-१०॥
मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम्। गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम् ॥०४-४०-११॥
अर्जुन उवाच॥
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्। चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते ॥०४-४०-१२॥
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः। समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज ॥०४-४०-१३॥
उत्तर उवाच॥
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा। न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः ॥०४-४०-१४॥
सहायवानस्मि रणे युध्येयममरैरपि। साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे ॥०४-४०-१५॥
अहं ते सङ्ग्रहीष्यामि हयाञ्शत्रुरथारुजः। शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ ॥०४-४०-१६॥
दारुको वासुदेवस्य यथा शक्रस्य मातलिः। तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव ॥०४-४०-१७॥
यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम्। दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः ॥०४-४०-१८॥
योऽयं धुरं धुर्यवरो वामं वहति शोभनः। तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम् ॥०४-४०-१९॥
योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः। वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम् ॥०४-४०-२०॥
योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः। बलाहकादपि मतः स जवे वीर्यवत्तरः ॥०४-४०-२१॥
त्वामेवायं रथो वोढुं सङ्ग्रामेऽर्हति धन्विनम्। त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम ॥०४-४०-२२॥
वैशम्पायन उवाच॥
ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान्। चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे ॥०४-४०-२३॥
कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा। अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥०४-४०-२४॥
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः। यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः ॥०४-४०-२५॥
सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्। भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम् ॥०४-४०-२६॥
तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव। यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे ॥०४-४०-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.