Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.041
वैशम्पायन उवाच॥
उत्तरं सारथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्। आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः ॥०४-४१-१॥
ध्वजं सिंहं रथात्तस्मादपनीय महारथः। प्रणिधाय शमीमूले प्रायादुत्तरसारथिः ॥०४-४१-२॥
दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा। काञ्चनं सिंहलाङ्गूलं ध्वजं वानरलक्षणम् ॥०४-४१-३॥
मनसा चिन्तयामास प्रसादं पावकस्य च। स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्यचोदयत् ॥०४-४१-४॥
सपताकं विचित्राङ्गं सोपासङ्गं महारथः। रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः ॥०४-४१-५॥
बद्धासिः सतनुत्राणः प्रगृहीतशरासनः। ततः प्रायादुदीचीं स कपिप्रवरकेतनः ॥०४-४१-६॥
स्वनवन्तं महाशङ्खं बलवानरिमर्दनः। प्राधमद्बलमास्थाय द्विषतां लोमहर्षणम् ॥०४-४१-७॥
ततस्ते जवना धुर्या जानुभ्यामगमन्महीम्। उत्तरश्चापि सन्त्रस्तो रथोपस्थ उपाविशत् ॥०४-४१-८॥
संस्थाप्य चाश्वान्कौन्तेयः समुद्यम्य च रश्मिभिः। उत्तरं च परिष्वज्य समाश्वासयदर्जुनः ॥०४-४१-९॥
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परन्तप। कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि ॥०४-४१-१०॥
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः। कुञ्जराणां च नदतां व्यूढानीकेषु तिष्ठताम् ॥०४-४१-११॥
स त्वं कथमिहानेन शङ्खशब्देन भीषितः। विषण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा ॥०४-४१-१२॥
उत्तर उवाच॥
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च पुष्कलाः। कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठताम् ॥०४-४१-१३॥
नैवंविधः शङ्खशब्दः पुरा जातु मया श्रुतः। ध्वजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम् ॥ धनुषश्चैव निर्घोषः श्रुतपूर्वो न मे क्वचित् ॥०४-४१-१४॥
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च। रथस्य च निनादेन मनो मुह्यति मे भृशम् ॥०४-४१-१५॥
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव मे। ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे ॥ गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ ॥०४-४१-१६॥
अर्जुन उवाच॥
एकान्ते रथमास्थाय पद्भ्यां त्वमवपीडय। दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः ॥०४-४१-१७॥
वैशम्पायन उवाच॥
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च। गाण्डीवस्य च घोषेण पृथिवी समकम्पत ॥०४-४१-१८॥
द्रोण उवाच॥
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते। कम्पते च यथा भूमिर्नैषोऽन्यः सव्यसाचिनः ॥०४-४१-१९॥
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाजिनः। अग्नयश्च न भासन्ते समिद्धास्तन्न शोभनम् ॥०४-४१-२०॥
प्रत्यादित्यं च नः सर्वे मृगा घोरप्रवादिनः। ध्वजेषु च निलीयन्ते वायसास्तन्न शोभनम् ॥ शकुनाश्चापसव्या नो वेदयन्ति महद्भयम् ॥०४-४१-२१॥
गोमायुरेष सेनाया रुवन्मध्येऽनुधावति। अनाहतश्च निष्क्रान्तो महद्वेदयते भयम् ॥ भवतां रोमकूपाणि प्रहृष्टान्युपलक्षये ॥०४-४१-२२॥
पराभूता च वः सेना न कश्चिद्योद्धुमिच्छति। विवर्णमुखभूयिष्ठाः सर्वे योधा विचेतसः ॥ गाः सम्प्रस्थाप्य तिष्ठामो व्यूढानीकाः प्रहारिणः ॥०४-४१-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.