Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.042
वैशम्पायन उवाच॥
अथ दुर्योधनो राजा समरे भीष्ममब्रवीत्। द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ॥०४-४२-१॥
उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत्। पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् ॥०४-४२-२॥
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान्। वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥०४-४२-३॥
तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम्। अज्ञातवासं बीभत्सुरथास्माभिः समागतः ॥०४-४२-४॥
अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः। पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः ॥०४-४२-५॥
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्। हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥०४-४२-६॥
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः। अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥०४-४२-७॥
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम्। यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः ॥०४-४२-८॥
त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः। मत्स्यानां विप्रकारांस्ते बहूनस्मानकीर्तयन् ॥०४-४२-९॥
तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम्। प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत् ॥०४-४२-१०॥
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम्। अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ॥०४-४२-११॥
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः। अस्मान्वाप्यतिसन्धाय कुर्युर्मत्स्येन सङ्गतम् ॥०४-४२-१२॥
अथ वा तानुपायातो मत्स्यो जानपदैः सह। सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ॥०४-४२-१३॥
तेषामेव महावीर्यः कश्चिदेव पुरःसरः। अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् ॥०४-४२-१४॥
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः। सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥०४-४२-१५॥
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः। भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ॥०४-४२-१६॥
सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः। नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् ॥०४-४२-१७॥
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा। यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत् ॥०४-४२-१८॥
शरैरभिप्रणुन्नानां भग्नानां गहने वने। को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ॥०४-४२-१९॥
जानाति हि मतं तेषामतस्त्रासयतीव नः। अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षये ॥०४-४२-२०॥
तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति। यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥०४-४२-२१॥
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता। यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥०४-४२-२२॥
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे। स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥०४-४२-२३॥
सदा च वायवो वान्ति नित्यं वर्षति वासवः। स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥०४-४२-२४॥
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते। अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात् ॥०४-४२-२५॥
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः। नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन ॥०४-४२-२६॥
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च। कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः ॥०४-४२-२७॥
बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि। इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः ॥०४-४२-२८॥
परेषां विवरज्ञाने मनुष्याचरितेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥०४-४२-२९॥
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः। विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥०४-४२-३०॥
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्। आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परान् ॥०४-४२-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.