04.042
वैशम्पायन उवाच॥
अथ दुर्योधनो राजा समरे भीष्ममब्रवीत्। द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ॥०४-४२-१॥
उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत्। पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन्
॥०४-४२-२॥
पराजितैर्हि वस्तव्यं तैश्च द्वादश वत्सरान्। वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥०४-४२-३॥
तेषां न तावन्निर्वृत्तं वर्तते तु त्रयोदशम्। अज्ञातवासं बीभत्सुरथास्माभिः समागतः ॥०४-४२-४॥
अनिवृत्ते तु निर्वासे यदि बीभत्सुरागतः। पुनर्द्वादश वर्षाणि वने वत्स्यन्ति पाण्डवाः
॥०४-४२-५॥
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्। हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति ॥०४-४२-६॥
अर्थानां तु पुनर्द्वैधे नित्यं भवति संशयः। अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा
॥०४-४२-७॥
उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम्। यदि बीभत्सुरायातस्तेषां कः स्यात्पराङ्मुखः
॥०४-४२-८॥
त्रिगर्तानां वयं हेतोर्मत्स्यान्योद्धुमिहागताः। मत्स्यानां विप्रकारांस्ते
बहूनस्मानकीर्तयन् ॥०४-४२-९॥
तेषां भयाभिपन्नानां तदस्माभिः प्रतिश्रुतम्। प्रथमं तैर्ग्रहीतव्यं मत्स्यानां गोधनं महत्
॥०४-४२-१०॥
सप्तमीमपराह्णे वै तथा नस्तैः समाहितम्। अष्टम्यां पुनरस्माभिरादित्यस्योदयं प्रति ॥०४-४२-११॥
ते वा गावो न पश्यन्ति यदि व स्युः पराजिताः। अस्मान्वाप्यतिसन्धाय कुर्युर्मत्स्येन सङ्गतम्
॥०४-४२-१२॥
अथ वा तानुपायातो मत्स्यो जानपदैः सह। सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ॥०४-४२-१३॥
तेषामेव महावीर्यः कश्चिदेव पुरःसरः। अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत्
॥०४-४२-१४॥
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः। सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः
॥०४-४२-१५॥
अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः। भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च
॥०४-४२-१६॥
सम्भ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः। नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा
प्रणिधीयताम् ॥०४-४२-१७॥
आच्छिन्ने गोधनेऽस्माकमपि देवेन वज्रिणा। यमेन वापि सङ्ग्रामे को हास्तिनपुरं व्रजेत्
॥०४-४२-१८॥
शरैरभिप्रणुन्नानां भग्नानां गहने वने। को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ आचार्यं
पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ॥०४-४२-१९॥
जानाति हि मतं तेषामतस्त्रासयतीव नः। अर्जुनेनास्य सम्प्रीतिमधिकामुपलक्षये ॥०४-४२-२०॥
तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति। यथा सेना न भज्येत तथा नीतिर्विधीयताम्
॥०४-४२-२१॥
अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता। यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥०४-४२-२२॥
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे। स्थाने वापि व्रजन्तो वा सदा हेषन्ति वाजिनः
॥०४-४२-२३॥
सदा च वायवो वान्ति नित्यं वर्षति वासवः। स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा
॥०४-४२-२४॥
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते। अन्यत्र कामाद्द्वेषाद्वा रोषाद्वास्मासु केवलात्
॥०४-४२-२५॥
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः। नैते महाभये प्राप्ते सम्प्रष्टव्याः कथञ्चन
॥०४-४२-२६॥
प्रासादेषु विचित्रेषु गोष्ठीष्वावसथेषु च। कथा विचित्राः कुर्वाणाः पण्डितास्तत्र शोभनाः
॥०४-४२-२७॥
बहून्याश्चर्यरूपाणि कुर्वन्तो जनसंसदि। इष्वस्त्रे चारुसन्धाने पण्डितास्तत्र शोभनाः
॥०४-४२-२८॥
परेषां विवरज्ञाने मनुष्याचरितेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥०४-४२-२९॥
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः। विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥०४-४२-३०॥
गावश्चैव प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्। आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे
परान् ॥०४-४२-३१॥