04.043
कर्ण उवाच॥
सर्वानायुष्मतो भीतान्सन्त्रस्तानिव लक्षये। अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान् ॥०४-४३-१॥
यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः। अहमावारयिष्यामि वेलेव मकरालयम् ॥०४-४३-२॥
मम चापप्रमुक्तानां शराणां नतपर्वणाम्। नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम् ॥०४-४३-३॥
रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया। छादयन्तु शराः पार्थं शलभा इव पादपम्
॥०४-४३-४॥
शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम्। श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव ॥०४-४३-५॥
समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च। जातस्नेहश्च युद्धस्य मयि सम्प्रहरिष्यति
॥०४-४३-६॥
पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव। शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः
॥०४-४३-७॥
एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः। अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित्
॥०४-४३-८॥
इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः। दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम्
॥०४-४३-९॥
अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम्। धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम्
॥०४-४३-१०॥
अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम्। शलभानामिवाकाशे प्रचारः सम्प्रदृश्यताम्
॥०४-४३-११॥
इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम्। अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम् ॥०४-४३-१२॥
तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम्। पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान् ॥०४-४३-१३॥
अश्ववेगपुरोवातो रथौघस्तनयित्नुमान्। शरधारो महामेघः शमयिष्यामि पाण्डवम् ॥०४-४३-१४॥
मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः। शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः ॥०४-४३-१५॥
जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात्। तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम्
॥०४-४३-१६॥
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया। अद्यैव पततां भूमौ विनदन्भैरवान्रवान् ॥०४-४३-१७॥
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम्। दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः
॥०४-४३-१८॥
अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम्। समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात्
॥०४-४३-१९॥
हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम्। निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः
॥०४-४३-२०॥
कामं गच्छन्तु कुरवो धनमादाय केवलम्। रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम् ॥०४-४३-२१॥