04.044
कृप उवाच॥
सदैव तव राधेय युद्धे क्रूरतरा मतिः। नार्थानां प्रकृतिं वेत्थ नानुबन्धमवेक्षसे ॥०४-४४-१॥
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः। तेषां युद्धं तु पापिष्ठं वेदयन्ति
पुराविदः ॥०४-४४-२॥
देशकालेन संयुक्तं युद्धं विजयदं भवेत्। हीनकालं तदेवेह फलवन्न भवत्युत ॥ देशे काले च
विक्रान्तं कल्याणाय विधीयते ॥०४-४४-३॥
आनुकूल्येन कार्याणामन्तरं संविधीयताम्। भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः ॥०४-४४-४॥
परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः। एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत् ॥०४-४४-५॥
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत्। एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयत् ॥
अस्मिन्नेव वने कृष्णो हृतां कृष्णामवाजयत् ॥०४-४४-६॥
एकश्च पञ्च वर्षाणि शक्रादस्त्राण्यशिक्षत। एकः सांयमिनीं जित्वा कुरूणामकरोद्यशः ॥०४-४४-७॥
एको गन्धर्वराजानं चित्रसेनमरिंदमः। विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम् ॥०४-४४-८॥
तथा निवातकवचाः कालखञ्जाश्च दानवाः। दैवतैरप्यवध्यास्ते एकेन युधि पातिताः ॥०४-४४-९॥
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा। एकैकेन यथा तेषां भूमिपाला वशीकृताः ॥०४-४४-१०॥
इन्द्रोऽपि हि न पार्थेन संयुगे योद्धुमर्हति। यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम्
॥०४-४४-११॥
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्। अविमृश्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि
॥०४-४४-१२॥
अथ वा कुञ्जरं मत्तमेक एव चरन्वने। अनङ्कुशं समारुह्य नगरं गन्तुमिच्छसि ॥०४-४४-१३॥
समिद्धं पावकं वापि घृतमेदोवसाहुतम्। घृताक्तश्चीरवासास्त्वं मध्येनोत्तर्तुमिच्छसि
॥०४-४४-१४॥
आत्मानं यः समुद्बध्य कण्ठे बद्ध्वा महाशिलाम्। समुद्रं प्रतरेद्दोर्भ्यां तत्र किं नाम
पौरुषम् ॥०४-४४-१५॥
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः। तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स
दुर्मतिः ॥०४-४४-१६॥
अस्माभिरेष निकृतो वर्षाणीह त्रयोदश। सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति ॥०४-४४-१७॥
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम्। अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम्
॥०४-४४-१८॥
सह युध्यामहे पार्थमागतं युद्धदुर्मदम्। सैन्यास्तिष्ठन्तु संनद्धा व्यूढानीकाः प्रहारिणः
॥०४-४४-१९॥
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्। सर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः
॥०४-४४-२०॥
वयं व्यवसितं पार्थं वज्रपाणिमिवोद्यतम्। षड्रथाः प्रतियुध्येम तिष्ठेम यदि संहताः ॥०४-४४-२१॥
व्यूढानीकानि सैन्यानि यत्ताः परमधन्विनः। युध्यामहेऽर्जुनं सङ्ख्ये दानवा वासवं यथा
॥०४-४४-२२॥