04.045
अश्वत्थामोवाच॥
न च तावज्जिता गावो न च सीमान्तरं गताः। न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे
॥०४-४५-१॥
सङ्ग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम्। विजित्य च परां भूमिं नाहुः किञ्चन पौरुषम्
॥०४-४५-२॥
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः। तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥०४-४५-३॥
चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः। धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति
॥०४-४५-४॥
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च। क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् ॥
वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् ॥०४-४५-५॥
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम्। सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि
॥०४-४५-६॥
प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति। तथा नृशंसरूपेण यथान्यः प्राकृतो जनः
॥०४-४५-७॥
तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः। निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥०४-४५-८॥
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम्। नकुलं सहदेवं च धनं येषां त्वया हृतम् ॥०४-४५-९॥
युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः। इन्द्रप्रस्थं त्वया कस्मिन्सङ्ग्रामे निर्जितं
पुरा ॥०४-४५-१०॥
तथैव कतमं युद्धं यस्मिन्कृष्णा जिता त्वया। एकवस्त्रा सभां नीता दुष्टकर्मन्रजस्वला
॥०४-४५-११॥
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा। कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत्
॥०४-४५-१२॥
यथाशक्ति मनुष्याणां शममालक्षयामहे। अन्येषां चैव सत्त्वानामपि कीटपिपीलिके ॥०४-४५-१३॥
द्रौपद्यास्तं परिक्लेशं न क्षन्तुं पाण्डवोऽर्हति। दुःखाय धार्तराष्ट्राणां प्रादुर्भूतो
धनञ्जयः ॥०४-४५-१४॥
त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि। वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति
॥०४-४५-१५॥
नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान्। भयादिह न युध्येत कुन्तीपुत्रो धनञ्जयः
॥०४-४५-१६॥
यं यमेषोऽभिसङ्क्रुद्धः सङ्ग्रामेऽभिपतिष्यति। वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ॥०४-४५-१७॥
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम्। वासुदेवसमं युद्धे तं पार्थं को न पूजयेत्
॥०४-४५-१८॥
दैवं दैवेन युध्येत मानुषेण च मानुषम्। अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान्
॥०४-४५-१९॥
पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः। एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः
॥०४-४५-२०॥
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः। यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम्
॥०४-४५-२१॥
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः। दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह
॥०४-४५-२२॥
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च। ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति
गाण्डिवम् ॥०४-४५-२३॥
न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः। अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः
॥०४-४५-२४॥
अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः। कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः
॥०४-४५-२५॥
युध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम्। मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां
पदम् ॥०४-४५-२६॥