Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.046
भीष्म उवाच॥
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति। कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति ॥०४-४६-१॥
आचार्यो नाभिषक्तव्यः पुरुषेण विजानता। देशकालौ तु सम्प्रेक्ष्य योद्धव्यमिति मे मतिः ॥०४-४६-२॥
यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः। कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥०४-४६-३॥
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः। तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते ॥०४-४६-४॥
कर्णो यदभ्यवोचन्नस्तेजःसञ्जननाय तत्। आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥०४-४६-५॥
नायं कालो विरोधस्य कौन्तेये समुपस्थिते। क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥०४-४६-६॥
भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा। यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते ॥ एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥०४-४६-७॥
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते। नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः ॥०४-४६-८॥
अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः। ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥०४-४६-९॥
आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने। सर्वे संहत्य युध्यामः पाकशासनिमागतम् ॥०४-४६-१०॥
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः। मुख्यो भेदो हि तेषां वै पापिष्ठो विदुषां मतः ॥०४-४६-११॥
अश्वत्थामोवाच॥
आचार्य एव क्षमतां शान्तिरत्र विधीयताम्। अभिषज्यमाने हि गुरौ तद्वृत्तं रोषकारितम् ॥०४-४६-१२॥
वैशम्पायन उवाच॥
ततो दुर्योधनो द्रोणं क्षमयामास भारत। सह कर्णेन भीष्मेण कृपेण च महात्मना ॥०४-४६-१३॥
द्रोण उवाच॥
यदेव प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्। तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥०४-४६-१४॥
यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान्। साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥०४-४६-१५॥
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः। धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति ॥०४-४६-१६॥
यथा नायं समायुज्याद्धार्तराष्ट्रान्कथञ्चन। यथा च न पराजय्यात्तथा नीतिर्विधीयताम् ॥०४-४६-१७॥
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम्। तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि ॥०४-४६-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.