Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.047
भीष्म उवाच॥
कलांशास्तात युज्यन्ते मुहूर्ताश्च दिनानि च। अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा ॥०४-४७-१॥
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि। एवं कालविभागेन कालचक्रं प्रवर्तते ॥०४-४७-२॥
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्। पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ॥०४-४७-३॥
तेषामभ्यधिका मासाः पञ्च द्वादश च क्षपाः। त्रयोदशानां वर्षाणामिति मे वर्तते मतिः ॥०४-४७-४॥
सर्वं यथावच्चरितं यद्यदेभिः परिश्रुतम्। एवमेतद्ध्रुवं ज्ञात्वा ततो बीभत्सुरागतः ॥०४-४७-५॥
सर्वे चैव महात्मानः सर्वे धर्मार्थकोविदाः। येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः ॥०४-४७-६॥
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्। न चापि केवलं राज्यमिच्छेयुस्तेऽनुपायतः ॥०४-४७-७॥
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः। धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात् ॥०४-४७-८॥
यच्चानृत इति ख्यायेद्यच्च गच्छेत्पराभवम्। वृणुयुर्मरणं पार्था नानृतत्वं कथञ्चन ॥०४-४७-९॥
प्राप्ते तु काले प्राप्तव्यं नोत्सृजेयुर्नरर्षभाः। अपि वज्रभृता गुप्तं तथावीर्या हि पाण्डवाः ॥०४-४७-१०॥
प्रतियुध्याम समरे सर्वशस्त्रभृतां वरम्। तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम् ॥ तत्संविधीयतां क्षिप्रं मा नो ह्यर्थोऽतिगात्परान् ॥०४-४७-११॥
न हि पश्यामि सङ्ग्रामे कदाचिदपि कौरव। एकान्तसिद्धिं राजेन्द्र सम्प्राप्तश्च धनञ्जयः ॥०४-४७-१२॥
सम्प्रवृत्ते तु सङ्ग्रामे भावाभावौ जयाजयौ। अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम् ॥०४-४७-१३॥
तस्माद्युद्धावचरिकं कर्म वा धर्मसंहितम्। क्रियतामाशु राजेन्द्र सम्प्राप्तो हि धनञ्जयः ॥०४-४७-१४॥
दुर्योधन उवाच॥
नाहं राज्यं प्रदास्यामि पाण्डवानां पितामह। युद्धावचारिकं यत्तु तच्छीघ्रं संविधीयताम् ॥०४-४७-१५॥
भीष्म उवाच॥
अत्र या मामकी बुद्धिः श्रूयतां यदि रोचते। क्षिप्रं बलचतुर्भागं गृह्य गच्छ पुरं प्रति ॥ ततोऽपरश्चतुर्भागो गाः समादाय गच्छतु ॥०४-४७-१६॥
वयं त्वर्धेन सैन्येन प्रतियोत्स्याम पाण्डवम्। मत्स्यं वा पुनरायातमथ वापि शतक्रतुम् ॥०४-४७-१७॥
आचार्यो मध्यतस्तिष्ठत्वश्वत्थामा तु सव्यतः। कृपः शारद्वतो धीमान्पार्श्वं रक्षतु दक्षिणम् ॥०४-४७-१८॥
अग्रतः सूतपुत्रस्तु कर्णस्तिष्ठतु दंशितः। अहं सर्वस्य सैन्यस्य पश्चात्स्थास्यामि पालयन् ॥०४-४७-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.