04.048
वैशम्पायन उवाच॥
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः। उपायादर्जुनस्तूर्णं रथघोषेण नादयन् ॥०४-४८-१॥
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम्। दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्
॥०४-४८-२॥
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्। महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ॥०४-४८-३॥
एतद्ध्वजाग्रं पार्थस्य दूरतः सम्प्रकाशते। एष घोषः सजलदो रोरवीति च वानरः ॥०४-४८-४॥
एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत्। उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ॥०४-४८-५॥
इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ। अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ
॥०४-४८-६॥
निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम्। अभिवादयते पार्थः श्रोत्रे च परिपृच्छति
॥०४-४८-७॥
अर्जुन उवाच॥
इषुपाते च सेनाया हयान्संयच्छ सारथे। यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ॥०४-४८-८॥
सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम्। तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः ॥०४-४८-९॥
एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम्। भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः
॥०४-४८-१०॥
राजानं नात्र पश्यामि गाः समादाय गच्छति। दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ॥०४-४८-११॥
उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः। तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ॥ तं
जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥०४-४८-१२॥
वैशम्पायन उवाच॥
एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः। नियम्य च ततो रश्मीन्यत्र ते कुरुपुङ्गवाः ॥
अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ॥०४-४८-१३॥
उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने। अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ॥०४-४८-१४॥
नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति। तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः
॥०४-४८-१५॥
न ह्येनमभिसङ्क्रुद्धमेको युध्येत संयुगे। अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात्
॥०४-४८-१६॥
किं नो गावः करिष्यन्ति धनं वा विपुलं तथा। दुर्योधनः पार्थजले पुरा नौरिव मज्जति ॥०४-४८-१७॥
तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः। शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ॥०४-४८-१८॥
कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः। नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः
॥०४-४८-१९॥
तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः। शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा
॥०४-४८-२०॥
ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम्। विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत्
॥०४-४८-२१॥
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च। अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ॥०४-४८-२२॥
ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः। गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम्
॥०४-४८-२३॥