04.049
वैशम्पायन उवाच॥
स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः। दुर्योधनायाभिमुखं प्रयातो;
भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ॥०४-४९-१॥
गोषु प्रयातासु जवेन मत्स्या; न्किरीटिनं कृतकार्यं च मत्वा। दुर्योधनायाभिमुखं प्रयान्तं;
कुरुप्रवीराः सहसाभिपेतुः ॥०४-४९-२॥
तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि। मत्स्यस्य पुत्रं द्विषतां निहन्ता;
वैराटिमामन्त्र्य ततोऽभ्युवाच ॥०४-४९-३॥
एतेन तूर्णं प्रतिपादयेमा; ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान्। जवेन सर्वेण कुरु प्रयत्न;
मासादयैतद्रथसिंहवृन्दम् ॥०४-४९-४॥
गजो गजेनेव मया दुरात्मा; यो योद्धुमाकाङ्क्षति सूतपुत्रः। तमेव मां प्रापय राजपुत्र;
दुर्योधनापाश्रयजातदर्पम् ॥०४-४९-५॥
स तैर्हयैर्वातजवैर्बृहद्भिः; पुत्रो विराटस्य सुवर्णकक्ष्यैः। विध्वंसयंस्तद्रथिनामनीकं;
ततोऽवहत्पाण्डवमाजिमध्ये ॥०४-४९-६॥
तं चित्रसेनो विशिखैर्विपाठैः; सङ्ग्रामजिच्छत्रुसहो जयश्च। प्रत्युद्ययुर्भारतमापतन्तं;
महारथाः कर्णमभीप्समानाः ॥०४-४९-७॥
ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः। व्रातान्रथानामदहत्स मन्यु; र्वनं यथाग्निः
कुरुपुङ्गवानाम् ॥०४-४९-८॥
तस्मिंस्तु युद्धे तुमुले प्रवृत्ते; पार्थं विकर्णोऽतिरथं रथेन। विपाठवर्षेण कुरुप्रवीरो;
भीमेन भीमानुजमाससाद ॥०४-४९-९॥
ततो विकर्णस्य धनुर्विकृष्य; जाम्बूनदाग्र्योपचितं दृढज्यम्। अपातयद्ध्वजमस्य प्रमथ्य;
छिन्नध्वजः सोऽप्यपयाज्जवेन ॥०४-४९-१०॥
तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणममानुषाणि। शत्रुन्तपः कोपममृष्यमाणः;
समर्पयत्कूर्मनखेन पार्थम् ॥०४-४९-११॥
स तेन राज्ञातिरथेन विद्धो; विगाहमानो ध्वजिनीं कुरूणाम्। शत्रुन्तपं पञ्चभिराशु विद्ध्वा;
ततोऽस्य सूतं दशभिर्जघान ॥०४-४९-१२॥
ततः स विद्धो भरतर्षभेण; बाणेन गात्रावरणातिगेन। गतासुराजौ निपपात भूमौ; नगो नगाग्रादिव
वातरुग्णः ॥०४-४९-१३॥
रथर्षभास्ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः। चकम्पिरे वातवशेन काले; प्रकम्पितानीव
महावनानि ॥०४-४९-१४॥
हतास्तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः। वसुप्रदा वासवतुल्यवीर्याः; पराजिता
वासवजेन सङ्ख्ये ॥ सुवर्णकार्ष्णायसवर्मनद्धा; नागा यथा हैमवताः प्रवृद्धाः ॥०४-४९-१५॥
तथा स शत्रून्समरे विनिघ्न; न्गाण्डीवधन्वा पुरुषप्रवीरः। चचार सङ्ख्ये प्रदिशो दिशश्च;
दहन्निवाग्निर्वनमातपान्ते ॥०४-४९-१६॥
प्रकीर्णपर्णानि यथा वसन्ते; विशातयित्वात्यनिलो नुदन्खे। तथा सपत्नान्विकिरन्किरीटी; चचार
सङ्ख्येऽतिरथो रथेन ॥०४-४९-१७॥
शोणाश्ववाहस्य हयान्निहत्य; वैकर्तनभ्रातुरदीनसत्त्वः। एकेन सङ्ग्रामजितः शरेण; शिरो जहाराथ
किरीटमाली ॥०४-४९-१८॥
तस्मिन्हते भ्रातरि सूतपुत्रो; वैकर्तनो वीर्यमथाददानः। प्रगृह्य दन्ताविव नागराजो; महर्षभं
व्याघ्र इवाभ्यधावत् ॥०४-४९-१९॥
स पाण्डवं द्वादशभिः पृषत्कै; र्वैकर्तनः शीघ्रमुपाजघान। विव्याध गात्रेषु हयांश्च सर्वा;
न्विराटपुत्रं च शरैर्निजघ्ने ॥०४-४९-२०॥
स हस्तिनेवाभिहतो गजेन्द्रः; प्रगृह्य भल्लान्निशितान्निषङ्गात्। आकर्णपूर्णं च धनुर्विकृष्य;
विव्याध बाणैरथ सूतपुत्रम् ॥०४-४९-२१॥
अथास्य बाहूरुशिरोललाटं; ग्रीवां रथाङ्गानि परावमर्दी। स्थितस्य बाणैर्युधि निर्बिभेद;
गाण्डीवमुक्तैरशनिप्रकाशैः ॥०४-४९-२२॥
स पार्थमुक्तैर्विशिखैः प्रणुन्नो; गजो गजेनेव जितस्तरस्वी। विहाय सङ्ग्रामशिरः प्रयातो;
वैकर्तनः पाण्डवबाणतप्तः ॥०४-४९-२३॥