04.050
वैशम्पायन उवाच॥
अपयाते तु राधेये दुर्योधनपुरोगमाः। अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम् ॥०४-५०-१॥
बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः। अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ॥०४-५०-२॥
आस्थाय रुचिरं जिष्णो रथं सारथिना मया। कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया ॥०४-५०-३॥
अर्जुन उवाच॥
लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि। नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥०४-५०-४॥
कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम्। एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः
॥०४-५०-५॥
कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः। आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ॥०४-५०-६॥
सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम्। अत्रैव चाविरोधेन एष धर्मः सनातनः ॥०४-५०-७॥
यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति। ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति ॥०४-५०-८॥
अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते। आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः
॥०४-५०-९॥
सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि। एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः
॥०४-५०-१०॥
य एष तु रथानीके सुवर्णकवचावृतः। सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ॥०४-५०-११॥
यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः। धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥०४-५०-१२॥
एतस्याभिमुखं वीर रथं पररथारुजः। प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ॥०४-५०-१३॥
एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः। एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः
॥०४-५०-१४॥
नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति। एष वैकर्तनः कर्णो विदितः पूर्वमेव ते
॥०४-५०-१५॥
एतस्य रथमास्थाय राधेयस्य दुरात्मनः। यत्तो भवेथाः सङ्ग्रामे स्पर्धत्येष मया सदा ॥०४-५०-१६॥
यस्तु नीलानुसारेण पञ्चतारेण केतुना। हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥०४-५०-१७॥
यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः। यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति
॥०४-५०-१८॥
महतो रथवंशस्य नानाध्वजपताकिनः। बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥०४-५०-१९॥
हैमं चन्द्रार्कसङ्काशं कवचं यस्य दृश्यते। जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ॥०४-५०-२०॥
एष शान्तनवो भीष्मः सर्वेषां नः पितामहः। राजश्रियावबद्धस्तु दुर्योधनवशानुगः ॥०४-५०-२१॥
पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत्। एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥०४-५०-२२॥
ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम्। यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनञ्जयम्
॥०४-५०-२३॥