Mahabharata - Virāṭa Parva (महाभारत - विराटपर्वम्)
04.051
वैशम्पायन उवाच॥
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्। संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ॥०४-५१-१॥
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः। भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥०४-५१-२॥
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्। सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः ॥०४-५१-३॥
तद्देवयक्षगन्धर्वमहोरगसमाकुलम्। शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ॥०४-५१-४॥
अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम्। तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ॥०४-५१-५॥
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः। मणिरत्नमयाश्चान्याः प्रासादमुपधारयन् ॥०४-५१-६॥
तत्र कामगमं दिव्यं सर्वरत्नविभूषितम्। विमानं देवराजस्य शुशुभे खेचरं तदा ॥०४-५१-७॥
तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः। गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥०४-५१-८॥
तथा राजा वसुमना बलाक्षः सुप्रतर्दनः। अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ॥०४-५१-९॥
मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः। विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥०४-५१-१०॥
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः। तथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥०४-५१-११॥
अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः। यथाभागं यथोद्देशं विमानानि चकाशिरे ॥०४-५१-१२॥
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः। अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥०४-५१-१३॥
दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः। प्रससार वसन्ताग्रे वनानामिव पुष्पिताम् ॥०४-५१-१४॥
रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम्। आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥०४-५१-१५॥
उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः। दिव्यान्गन्धानुपादाय वायुर्योधानसेवत ॥०४-५१-१६॥
प्रभासितमिवाकाशं चित्ररूपमलङ्कृतम्। सम्पतद्भिः स्थितैश्चैव नानारत्नावभासितैः ॥ विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ॥०४-५१-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.